________________ इत्थं रत्नत्रयता, प्राप्तेऽस्मिन्निर्विकल्पभावनिधौ / समभावात् सामायिक-पदप्रवृत्तिः सुपरिशुद्धा // 300 // पवनादिव कल्लोला:; परपरिणामा विकल्पतः पुंसः / स्थिरनिर्विकल्पवृत्तिः, स्तिमितोदधिसन्निभे त्वस्मिन् // 301 / / आगन्तुकाद्विकल्पा-निमित्ततः प्रसरतां स्वभावेन / कर्तृत्वाद्यभिमानात्, कर्माणूनां स संसरति // 302 // स्नेहालिङ्गितवपुषो, रेणुभिराश्लिष्यते यथा गात्रम् / रागद्वेषास्तमतेः, कर्मस्कन्धैस्तथा श्लेषः // 303 // पश्यन्नाटकमात्मा, तदनादिद्रव्यभावकर्मकृतम् / अन्तर्दशा स्वभावा-न्न चलति भगवानुदासीनः // 304 // अस्यां निमीलिताया-मपि च व्यवहारधीनिमीलायाम् / अयमीदृगेव न मृगो, भवति मृगपतिः प्रसुप्तोऽपि // 305 // कुरुते नहि परभावा-न्न कारयत्यपि च नानुजानीते / परिणामानां स्वेषां, स भवति कर्ता च भोक्ता च // 306 // परभावकर्तृचेतो-वाक् कायाभेदमध्यवस्यन्तः / दधते पराङ्मुखत्वं, स्वभावलाभप्रथा भूमेः // 307 // नहि देहो न मनो वा, न चापि वाणी न कारणं तेषाम् / ज्ञायकभावस्त्वहमिति. बोधो भूमिः स्वभावस्य // 308 / / पुरुष ! त्वमेव मित्रं, तव किं बहिरीहसे परं मित्रम् / उच्चालयितारं त्वं, दूरालयिकं च जानीहि // 309 // इत्यादिभिरुपदेशैः, सूत्रोक्तैर्मोक्षमार्गमुख्यत्वम् / मननात्मकस्य सिद्धय-त्यनात्मभेदप्रबोधस्य // 310 // परमात्मा भिन्नः स्यात्, परभेदज्ञानपरिणतो जीवः / / वैषम्यविनिर्मुक्त-स्वरूपमात्रप्रकाशेन // 311 // 121