________________ विधिनानुज्ञानन्दी-माकर्षति संशृणोति शिष्यश्च / भणति पुनर्वन्दित्वा, प्रागुक्तं भावितस्वान्तः / // 276 // साधोरस्य दिगादि, क्षमाश्रमणहस्ततोऽहमनुजाने / भणति गुरुर्वन्दित्वा, शिष्योऽथ भणत्यशठचित्तः // 277 // सन्दिशत किं भणामि गुरुः प्रवेदय तथेति वन्दित्वा / कृत्वा तद्वन्दित्वा, प्रवेदितं भणति युष्माकम् // 278 // सन्दिशत च साधूनां, प्रवेदयामि प्रवेदयेति गुरुः / ब्रूते ततश्च शिष्यो, वन्दित्वाऽऽकृष्य मङ्गलकम् // 279 // कुरुते प्रदक्षिणां. सद्-गुरोः स दत्त्वोपयोगवान् वासान् / देवादीनां शीर्षे, तस्याथ प्रक्षिपन् भणति // 280 // वर्द्धस्व गुरुगुणैस्त्वं, त्रीन्, वारानुपविशेद्विधायैवम् / शेषं सामायिकवद्, दिगनुज्ञार्थस्त्विहोत्सर्गः // 281 // उपविशति गुरुसमीपे, ततश्च शिष्यः परे तु वन्दन्ते / / तं गुरुरप्यनुशास्तिं, द्वयोः प्रदत्ते प्रबोधफलाम् . // 282 // उत्तमपदमुत्तमजन-सेवितमिदमुत्तमोक्तमासाद्य / धन्यः पारं गत्वा, लभते सुखमुत्तमं कश्चित् // 283 // त्वमसि च तादृग्गुणवा-भिषग्वरः प्राणिनां भवार्तानाम् / तव शरणं प्रपन्ना, मोचयितव्यास्त्वया भव्याः // 284 // युष्माभिरपि च नायं, मोक्तव्यो भववने महागहने / सिद्धिपुरसार्थवाहः, क्षणमपि नित्यं तु संसेव्यः // 285 // आज्ञाकोपोऽपरथा, स्यादतिदुःखप्रदस्तदेतस्य / निर्भसितैरपि पदौ, न त्याज्यौ कुलवधूज्ञातात् // 286 // व्रतिनीनामप्येवं, गुरुरनुशास्तिं करोति दर्शयति / पूर्वोत्तमसाध्वीनां, गुणान् पुनश्चन्दनाद्यानाम् // 287 // 119