________________ पददानेऽयोग्यानां, गुरुतरगुणमलनया परित्यक्ताः / शिष्या भवन्ति नियमा-दाज्ञाकोपेन चात्मापि . // 264 // तस्मात्तीर्थकराज्ञा-राधननिरतो यथोक्तगुणपात्रे / गीतार्थो निश्चित्य, प्रवर्तिनीगणिपदे दत्ते // 265 / / दीक्षावयसोः प्राप्तो, धृतिमान् पिण्डैषणादिविज्ञाता / पीठादिधरः प्रोक्तः, स्वलब्धियोग्योऽनुवृत्तिपरः // 266 // अयमपि सार्द्धं गुरुणा, पृथगथ गुरुदत्तयोग्यपरिवारः / विहरति तदभावे वा, विधिनैव समाप्तकल्पेन // 267 // जातोऽजातश्च मतो, गीतार्थेतरकृतो द्विधा कल्पः / . पञ्चकतदूनभावात्, समाप्ततद्व्यत्ययविभिन्नः // 268 // ऋतुबद्धे, वर्षासु च, सप्त समाप्तस्तदूनकस्त्वितरः / . असमाप्ताजातानां, भवति हि नाभाव्यमोघेन // 269 // भवति समाप्ते कल्पे, कृतेऽपि चान्योऽन्यसङ्गतानां हि / गीतार्थसमेताना-मुभयेषां तंद् यथासमयम् // 270 // संयत्यपि गुणपङ्कत्या, याऽभ्यधिका भवति शेषसाध्वीभ्यः। श्रुतदीक्षादिपरिणता, स्वलब्धियोग्या भवेदेषा // 271 // आसां नहि स्वलब्धिः, सर्वं यद् गुरुपरीक्षितं प्रायः / / भवति च लघुत्वमाहुः, केचिदितीदं न युक्तिसहम् // 272 // कालाचरणाभ्यां यत्, स्वलब्धिरुचिते लघुत्वमपि विषये / जातसमाप्तविभाषा, तासामपि सूत्रतो मृग्या // 273 // अत्रानुज्ञार्थविधौ, शिष्यं संस्थाप्य वामपार्वे तम् / . देवान् वन्देत गुरु-र्वन्दित्वा भणति शिष्योऽथ // 274 // अनुजानीत दिगादिक-मिच्छाकारेण यूयमस्माकम् / इच्छाम इति तदर्थो-त्सर्गं कुरुते गुरुरथोक्त्वा / // 275 // 118