________________ यः सद्बाह्यमनित्यं, दानं दत्ते न शक्तिमान् लुब्धः / दुर्द्धरतरं कथमयं, बिभत्ति शीलव्रतं क्लीबः // 252 // नाशीलः शुद्धतपः, कर्तुं सहते न मोहपरतन्त्रः / शक्त्या तपोऽप्यकुर्वन्, भावयति सुभावनाजालम् // 253 // द्रव्यस्तवोऽत्र दानं, शेषा भावस्तवाः सुपरिशुद्धाः / सङ्क्षिप्तेयं सूत्रे, विस्तरतः स्तवपरिज्ञा तु // 254 // एवंविधमन्यदपि, ज्ञानपरिज्ञादि वाचयति धीरः / / ज्ञात्वा स्वशिष्यसम्पद-मुधुक्तः प्रवचनहितेऽसौ // 255 // अस्यैव परानुज्ञा, क्रियते गुणिनः कदाचिदन्यस्य / उदयति सहृदयमुख्याद्, यस्माज्जिनशासनश्लाघा // 256 // सूत्रार्थे निष्णातः, प्रियदृढधर्माऽनुवर्तनाकुशलः / गम्भीरो लब्धिनिधिः, कृतकरणः शुद्धजातिकुलः // 257 // प्रवचनदृढानुरागः, सोपग्रहसङ्ग्रहः स्थिरप्रकृतिः / पुरुषोत्तम इह गच्छ-स्वामी भणितो जिनवरेन्द्रैः // 258 // गीतार्था कृतकरणा, कुलजा परिणामिनी च गम्भीरा / चिरदीक्षिता च वृद्धा, प्रवर्तिनी संयती भणिता // 259 // व्यूढो गणधरशब्दो, गौतममुख्यैः स्वयं पुरुषसिंहैः / यस्तमपात्रे धत्ते, जानानोऽसौ महापापः . // 260 // कालोचितगुणरहिते, स्वस्मिन् यः स्थापितं च तं शब्दम् / अनुपालयति न सम्यग्, विशुद्धभावः स्वशक्त्यापि // 261 // शब्दः प्रवर्तिनीति, व्यूढो यश्चार्यचन्दनाद्याभिः / यस्तमपात्रे धत्ते, जानानोऽसौ महापापः // 262 // कालोचितगुणरहिता, या स्वस्यां स्थापितं च तं शब्दम् / अनुपालयति न सम्यग्, विशुद्धभावा स्वशक्त्यापि // 263 // 110.