________________ मानाभावात्कल्प्यं, नात्रान्यार्थत्वमपि च बुद्धिमता / प्रकृते च न प्रवचने, श्रूयन्ते पापवचनानि // 228 / / अनुपन्यस्यमनिष्टे, परिणामसुखं च हिंस्यमानानाम् / दृष्टेष्टविरुद्धार्था-च्छुभभावो म्लेच्छभावसमः // 229 // एकेन्द्रियादिभेदो-ऽप्यविशेषक्षेपकृत्तवापि स्यात् / शूद्रसहस्रेऽपि हते, यन्त्र मता ब्रह्महत्येति // 230 // यतनातोऽल्पेयमपि, ध्रुवं च सा सर्वधर्मसर्वस्वम् / परिणतजलदलशुद्ध्या, सा च महार्थव्ययादत्र // 231 // इत्थं खलु निर्दोषं, शिल्पादिविधानमपि जिनेन्द्रस्य / दुष्टमपि लेशतः सद्, बहुदोषनिवारकत्वेन // 232 // वरबोधिलाभतोऽसौ, सर्वोत्तमपुण्यसंयुतो भगवान्, / एकान्तपरहितरतो, विशुद्धयोगो महासत्त्वः // 233 // यद्बहुगुणं प्रजानां, तज् ज्ञात्वा खलु तथैव दर्शयति / तत्तद्रक्षणकर्तु-र्यथोचितं को भवेद्दोषः // 234 // अंशस्तत्र शुभतरो, बहुदोषनिवारणेह विश्वगुरोः / .. नागादेराकर्षण-दोषेऽपि यथेह शुभयोगः // 235 // एवं निवृत्तिसारा, हिंसेयं तत्त्वतस्तु विज्ञेया / यतनाविधिशुद्धिमतः, पूजादिगतापि च तथैव // 236 // अनुपकृता अपि पूज्या-श्चिन्तामणिवत्फलं. प्रयच्छन्ति। अधिकनिवृत्तिश्चास्यां, भावेनाधिकरणत्यागात् / // 237 // तद् गुणकृदियं हिंसा, सर्वज्ञगिरां च सम्भवद्रूपा / निश्चिततदुक्तसमया-गतात्सुधीसम्प्रदायाच्च // 238 // वेदवचनं च नैवं, न पौरुषेयं मतं यतस्तद्धि / इदमत्यन्तविरुद्धं, 'वचनं चापौरुषेयं च' // 239 // 115