________________ इह सदसदादिरूपे, जीवे बन्धादि युज्यते. सर्वम् / नानीदृशे तु किञ्चित्, वरश्रुतं शुद्धमित्थं तत् // 192 // मुख्योपचाररूपः, स्तवो द्विधा द्रव्यभावतो यत्र / वर्ण्यत उचितक्रमतः, सा कथिता स्तवपरिज्ञेति // 193 / / भावस्तवो यतीनां, क्रियाकलापः स्मृतो निरतिचारः / जिनभवनविधानादि, द्रव्यस्तव एव विधिशुद्धम् // 194 // . द्रव्यस्तवभावस्तव-रूपं ह्यन्योन्यसमनुविद्धं तत्तु / गृहिणोऽपि भावयोगो, भगवद्गुणरागतो भूयान् // 195 // द्रव्यस्तवश्च साधो-रप्यनुमोदनकृतो न नास्तीति / .... विहितः कायोत्सर्गः, सूत्रे यद्वन्दनाद्यर्थः __ // 196 // बल्यादि समवसरणे, न च यत् प्रतिषिद्धमर्हता जातु / - तस्मात् सोऽनुज्ञातो, योग्यानां गम्यते न्यायात् // 197 // अनुजानीते नार्हन् योगं मोक्षविगुणं कदाचिदपि / तदनुगुणोऽयं न पुन-र्नान्येषां बहुमतो भवति ... // 198 // भावस्य योऽपि लेशः, स बहुमतो भगवता गुणज्ञेन / द्रव्यस्तवेन न विना, स इत्यसावर्थतस्तादृक् // 199 // कार्यं खल्वभिलषता-ऽनन्तरमपि कारणं समभिलषितम् / आहारजतृप्तिमिवा-ऽभिवाञ्छता नूनमाहारः // 200 // जिनभवनकारणाद्यपि, भरतादीनां न वारितं तेन / तेषां यथैव कामाः, शल्यविषादिभिरुदाहरणैः // 201 // अनुमतमिदमपि तस्मा-दप्रतिषेधेन तान्त्रिकन्यायात् / . शेषाणामप्येवं, सङ्गतमस्याऽनुमत्यादि // 202 // यश्च चतुर्धा विनयो, भणितस्तत्रौपचारिको यश्च / . स हि तीर्थकरे नियमात्, न भवेद् द्रव्यस्तवादन्यः / // 203 // 112