________________ [अन्यत्र-"अकारो विष्णुरुद्दिष्ट, उकारस्तु महेश्वरः / मकारेणोच्यते ब्रह्मा, प्रणवेन त्रयो मताः // 1 // " एवमपि दृश्यते] नित्योद्युक्ततया या, संयमयोगेषु विविधभेदेषु / वृत्तिर्धार्मिकसाधो-स्तद्बाह्यं स्यादनुष्ठानम् // 182 // एतेन विधिनिषेधौ, बाध्येते यत्र नैव नियमेन / सम्भवतः परिशुद्धौ ब्रुवते तं छेदपरिशुद्धम् // 183 // समितिषु पञ्चसु च यथा, तिसृषु च गुप्तिषु सदाऽप्रमत्तेन / विधिना यतिना कार्य, कर्त्तव्यं कायिकाद्यपि हि // 184 // अपि च प्रमादजनका-स्त्याज्या वासादयः परम्परया / मधुकरवृत्त्या भिक्षा-लब्ध्याऽऽत्मा पालनीयश्च // 185 // यत्र प्रमादयोगात्, संयमयोगेषु विविधभेदेषु / . . नो धार्मिकप्रवृत्ति-ब्रुवते खलु तदननुष्ठानम् // 186 // एतेन यत्र बाध्यौ, वर्तेते नैव विधिनिषेधौ च / . छेदेनापरिशुद्धं, तं ग्रन्थं प्राहुराचार्याः // 187 // सङ्गीतकादिकार्ये, देवानामुद्यमो यथा नु यतेः / अपि चान्यधार्मिकाणा-मुच्छेदोऽसभ्यवचनं च // 188 // यदन्यैरुक्तम्-"सङ्गीतकेन देवस्य, प्रीती रावणवाद्यतः / तत्प्रीत्यर्थमतो यत्न-स्तत्र कार्यो विशेषतः // " // 189 // तथा-"अन्यधर्मस्थिताः सत्त्वा, असुरा इव, विष्णुना / उच्छेदनीयास्तेषां हि , वधे दोषो न विद्यते // " . // 190 // .. तथा - . 'ब्रह्मघातकोऽहम्' इत्यादिवचनात् तद्वेदनीयकर्मक्षय इति // जीवादिभाववादो, दृष्टेष्टाभ्यां न यः खलु विरुद्धः / तापविशुद्धः सोऽन्यों, द्वाभ्यामपि नैव शुद्ध: स्यात् // 191 // 111