________________ स्याद्वादादित्थमयं, वीर्योल्लासं क्रमात् समासाद्य / सम्यक्त्वं द्रव्याख्यं, भावं चरणं च शिवमेति // 171 // द्रव्याख्यं सम्यक्त्वं, जिनवचनं तत्त्वमिति रुचिः परमा / भूतार्थबोधशक्त्या, परिणमते भावसम्यक्त्वम् // 172 // अज्ञातगुणे सम्यग्, या श्रद्धा भवति सुन्दरे रत्ने / . हन्त ततोऽनन्तगुणा, विज्ञातगुणे पुनस्तस्मिन् // 173 // प्रशमादिलिङ्गजनकं, शिवबीजं तेन भावसम्यक्त्वं / . श्रुतधर्मस्तद्धेतुः, परीक्षणीयस्ततो यत्नात् . // 174 // सूक्ष्मोऽस्त्यशेषविषयः, सावद्ये यत्र कर्मणि निषेधः / / रागादिकुट्टनसहं, ध्यानं च स नाम कषशुद्धः // 175 // नो कार्या परपीडा, यथाऽत्र मनसा गिरा च वपुषा च / ध्यातव्यं च नितान्तं, रागादिविपक्षजालं तु // 176 // स्थूलो न सर्वविषयः, सावद्ये यत्र कर्मणि निषेधः / रागादिकुट्टनसहं, न ध्यानाद्येष तदशुद्धः // 177 // बहुभिः पञ्चभिरेका, हिंसाऽत्र यथा मृषा विसंवादे / / ध्यानेन ध्यातव्यं, तत्त्वमकारादिकं चेति . // 178 // यदन्यैरुक्तम्- . "अनस्थिमतां शकटभरेणैको घातः" तथा-"प्राणी प्राणिज्ञानं, घातकचित्तं च तद्गता चेष्टा / प्राणैश्च विप्रयोगः, पञ्चभिरापद्यते हिंसा / / " // 179 // तथा-"असन्तोऽपि स्वका दोषाः, पापशुद्ध्यर्थमीरिताः / न मृषायै विसंवाद-विरहात्तस्य कस्यचित् // " // 180 // तथा-"ब्रह्मोकारोऽत्र विज्ञेयः, अकारो विष्णुरुच्यते / महेश्वरो मकारस्तु, त्रयमेकत्र तत्त्वतः // 181 // 110