________________ असकृदपि क्षाराद्यैः, प्राप्तैरप्राप्तवेधपरिणामः / वेधं शुद्धिं च यथा, जात्यमणिर्याति तैरेव // 159 // अकलितवीर्योल्लास-स्तथा श्रुतादप्यनन्तशः प्राप्तात् / लभते वीर्योल्लासं, भव्यः शुद्धिं च तत एव // 160 // अस्यैव हि स्वभावो, यदतीतेषु श्रुतादियोगेषु / लभते वीर्योल्लासं, भव्यः शुद्धिं च बुद्धिं च // 161 // नैवं स्वभाववादः, स्याद्वादेऽन्तरभवंश्च दोषाय / सहकारिवशाच्चित्रं, भव्यत्वं च स्वभावोऽत्र - // 162 // तदचित्रत्वे सिद्धेः कालादिभिदा कदापि न घटेत / कर्मादिभिरपि तदुप-क्रमे च तच्चित्रताबीजम् // 163 // नो चेदभव्यजीव-स्वभावमपि तानि किं न विजयेरन् / तद्व्यापाराभावेऽ-प्यस्मिन्नन्विष्यतां बीजम् // 164 // तत्रैव तानि किञ्चित्, फलमथ जनयन्ति नापरत्रेति / न तु तेष्विव स्वभावो, भिदां व्रजेदाश्रयेऽप्येवम् // 165 // विनिगमकाभावादपि, हेतूनामिति फले मिथोऽपेक्षा / इत्थमभिप्रेत्यैतत्, 'सम्मत्यां' निजगदे सुधिया // 166 // 'कालो सहाव णियई, पुवकयं पुरिसकारणेगंता / मिच्छत्तं ते चेव उ, समासओ होंति सम्मत्तं" // 167 // तदपि न चित्रत्वं चे-दनेकजननैकस्वभावत्वात् / क्षणिकसमर्थात् स्वफलो-पनतेरपि च प्रतिव्यक्तिः // 168 // नैवं नामान्तरतः, स्याद्वादोपगमपर्यवसितत्वात् / एकान्तस्याघटनात्, विकल्पतः कात्य॑देशाभ्याम् // 169 // तस्यैव तथा भवने, नो हातुं पार्यतेऽन्वयोर्थानाम् / / व्यतिरेकोऽपि क्रमिक-स्वकार्ययोगादितीयं दिक् // 170 // 109