________________ // 138 // अनुयोगविधिश्चायं, सुतिथौ गुरुरुपविशेन्निषद्यायाम् / रचितायां कथितायां, पुरतः शिष्यो यथाजातः // 135 / / उपकरणत उपयुक्त-स्ततो गुरुः प्रत्युपेक्षते विधिना / मुखवस्त्रिकां सशिष्यः, सशिर:कायं तया चापि // 136 // आवतॆादशभि-वन्दनदानेन भणति शिष्योऽथ / सन्दिशत स्वाध्यायं, स्वस्थाः प्रस्थापयाम इति // 137 // प्रस्थापयेत्यनुमते, प्रस्थापयतो ह्येतौ ततश्च गुरुः / तिष्ठेन्निवेदितेऽस्मिन्, प्रस्थापयतोऽनुयोगं द्वौ अनुयोगं गुरुणाथो; शिष्योऽनुज्ञापयेच्च वन्दित्वा / अभिमन्त्र्याक्षान् देवान्, वन्देत गुरुस्ततो विधिना // 139 // सनमस्कारं नन्दी-माकर्षयति स्थितोऽथ परिपूर्णाम् / शिष्यः शृणोति भावा-नन्दीमाकृष्य भणति गुरुः // 140 // अनुयोगमस्य साधोः, क्षमाश्रमणहस्ततोऽहमनुजाने / पर्यायद्रव्यगुणैः, सोऽनुज्ञातोऽथ बन्दित्वा // 141 // सन्दिशत किं भणामी-त्यादि प्राग्वद्वदेदिह विशेषः / अधिकाशीरन्येषां, धारय सम्यक्प्रवेदय च // 142 // गुरुरुपविशति कृतत्रि-प्रदक्षिणे शिष्यके तनूत्सर्गे / विहिते चानुज्ञार्थे, सनिषद्यगुरुं. प्रदक्षिणयेत् // 143 // तत उपविष्टस्य गुरु-स्त्रीन् वारान् स्वान्तिके सुशिष्यस्य / कथयति मन्त्रपदानि, स्वपरम्परयाऽऽगतान्येव // 144 / / दत्ते सुमन्धमुष्टीं-स्त्रीनक्षाणां प्रवर्द्धमानांश्च / तद्ग्राहिणं च शिष्यं, स्वनिषद्यायां निवेशयति // 145 // तं वन्दतेऽथ समुनि-र्गुरुः स्वशक्त्या स देशनां दत्ते / / तुल्यगुणदीपनार्थं, नैतद् दुष्टं द्वयोरपि हि // 146 // 100