________________ // 99 // // 10 // // 101 // // 102 // // 103 // // 104 // आहारादनलोऽपि च, वृद्धिविकारोपलम्भतो व्यक्तम् / अपरप्रेरिततिर्य-ग्गतेः सचित्तश्च वायुरपि जन्मजरामृतिजीवन-रोहणरुग्दौहदैस्तथाहारात् / रोगचिकित्सादिभ्यो, नार्य इव सचेतनास्तरवः त्रसजीवत्वं व्यक्तं, तत्पालनतो व्रतानि मूलगुणाः / प्राणातिपातविरमण-मुख्याः षट् चरण तरु भूमौ एकेन्द्रियादितापन सङ्घट्टनपीडनादिना प्रथमे / प्रचलाक्रोधादिभ्यः, सूक्ष्मोऽन्यश्च द्वितीये स्यात् . क्रोधानाभोगादेः, सधर्मकाद्यप्रदत्तहरणे च / अस्तेये ब्रह्मण्यपि, करकर्मणि गुप्त्यरक्षायाम् अतिचारः पञ्चमके, सूक्ष्मः काकादिरक्षणाज्ज्ञेयः / कल्पाष्टके ममत्व-द्रव्यादिग्रहणतश्चान्यः ज्ञानाद्यनुपकृतिकृतो, धरणे वा वस्तुनोऽतिरिक्तस्य / षष्ठे च चतुर्भङ्गी, दिवागृहीतादिनिष्पन्ना उदकार्दादिपरीक्षां, कुर्यात् कथनोत्तरं च गीतार्थः / परिहरति नोदके वा, योग्यत्वमनीदृशे भजना कायोत्सर्गे योग्यो-पस्थापनचैत्यवन्दनादिविधौ / कृत्वा गुरवो वामे, पार्श्वे संस्थाप्य तं ददते एकैकं त्रीन् वारान्, व्रतमत्र स्थानविषयमिममाहुः / पट्टमुखवस्त्रकूर्पर-वामकरानामिकाग्रहणम् अपि हस्तिराजदन्तो-नतहस्ताभ्यां रजोहरणधरणम् / . प्रादक्षिण्यं चाशिषि, गुरोरियं स्यात् परीक्षापि ईषदवनतभ्रमता-मभिसरणे वृद्धिरपसृतौ हानिः / . साधूनां द्विविधा दिक्, साध्वीनां तिस्र एताः स्युः // 105 // // 106 // // 107 // // 108 // // 109 // // 110 // 104