________________ इच्छाकारेणाऽस्मान्, मुण्डयतेत्यथ स भणति वन्दित्वा / 'इच्छाम' इति भणित्वा, त्रि:प्रपठन् पञ्चमङ्गलकम् // 63 // अष्टास्तिस्रोऽच्छिना, गृह्णाति गुरुस्ततः स भणतीदम् / मम सामायिकमिच्छा-कारेणारोपयत यूयम् // 64 // इच्छाम इति भणित्वा, सार्द्ध शिष्येण सूत्रमाकृष्य / कुरुते कायोत्सर्ग, गुरुस्तदारोपणनिमित्तम् // 65 // उत्सार्य नमस्कारो-च्चारेणैतेन सह गुरुः सूत्रम् / पठति त्रिरथ च शिष्योऽ-प्यनुपठति विशुद्धपरिणामः // 66 // वासानभिमन्त्र्य गुरु-स्ततश्च जिनसाधुपादयोर्दत्ते / दापयति ततः शिष्यं, वन्दनकं भणति वन्दित्वा // 67 // सन्दिशत किं भणामी-त्येवं प्रवेदय गुरुश्च वन्दित्वा / इति भणति ततो ऽऽनत-तनुः स भणतीदमुपयुक्तः // 68 // युष्माभिः सामायिक-मारोपितकमनुशास्तिमिच्छामः / शीर्षे शिष्यस्यैवं, गुरुराह ददत्ततो वासान् . // 69 // वर्द्धस्व गुरुगुणैस्त्वं, निस्तारकपारगः प्रवेदितं किम् / तुभ्यं प्रवेदयामि स, भणति च सन्दिशत साधूनाम् अन्ये तु जिनादीनां, वासान्ददतीह भणति वन्दित्वा / सूरिः प्रवेदयेति, प्रदक्षिणां शिष्यकः कुरुते // 71 // सनमस्कारोच्चारं, वासानथ सूरिसाधवो ददति / कार्यस्त्रिवारमेवं, पुनरप्युत्सर्गमेके तु // 72 // आचाम्ले नियम, वदन्ति किल संश्रिता निजावलिकाम् / निपतति शिष्यः पदयोः, ततश्च जिनसाधुसूरीणाम् // 73 // वन्दन्ते च तमन्ये, गुरुरप्युपदिशति धर्मसर्वस्वम् / / शीले मोक्षनिदाने, प्राप्ते कार्यः प्रमादो नो 101 // 70 // // 74 //