________________ षष्ठ्यां च चतुर्दश्यां, द्वादश्यामष्टमीनवम्योश्च / भेषु चतुर्थ्यां सन्ध्या-गतादिषु पञ्चदश्यां च // 51 // तिसृषूत्तरासु कुर्याद्, रोहिण्यामपि च शिष्यनिष्क्रमणम् / आरोपणं व्रतानां, गणिवाचकयोरनुज्ञा च // 52 // धर्मकथाक्षिप्तं खलु, पृच्छेत्कः कुत्र किं निमित्तमिति / कुलपुत्रादिग्राह्यो, भजना,शेषेषु सूत्रविधेः . // 53 // . कथयेदिह दीक्षाया-स्तं प्रति कापुरुषदुरनुचरतां च / आरम्भनिवृत्तानां, लोकद्वयसुखसमृद्धिं च // 54 // आषण्मासीमुच्चै-रभ्युपगतमपि पुनः परीक्षेत / परिणामकमचिरादपि, दद्यादालापकं सुदिने // 55 // पूजां ततः स कुर्यात्, देवगुरूणां विधेर्यथाविभवम् / चैत्यानि वामपार्श्व-स्थितशिष्यो वन्दते च गुरुः // 56 // अस्खलितादिगुणयुतैः, सूत्रैः स्तुतिभिश्च वर्द्धमानाभिः / नो चेदसमाचारी, सूत्राज्ञाया व्यतिक्रमतः // 57 // वन्दित्वा पुनरुत्थित-गुरुभ्य इह वन्दनं समं दत्वा / मामिच्छाकारेण, प्रव्राजयतेति भणति शिशुः इच्छामीति भणित्वा-भ्युत्थायाकृष्य पञ्चमङ्गलकम् / अर्पयति रजोहरणं, भगवत्कथितं गुरुलिङ्गम् // 59 // अन्वर्था संज्ञेयं, कारणकार्योपचारतो भणिता / संयमयोगा यस्मा-दिह सर्वेऽप्येतदायत्ताः इदमित्थमेव दृष्ट्वा, प्रमार्जने प्राणिनामनुपघातात् / . आगाढव्युत्सर्ग-प्रभृते पुनरन्यथा दोषः // 61 // संसर्जनादिदोषा, विधिपरिभोगे न सन्ति देह इव / . इत्थमपीहानास्था-दिक्पटनटनाटकं विषमम् 100 // 58 // // 60 // // 62 //