________________ वयसाष्टादिकवर्षोऽ-नवकल्पश्चार्हति व्रतादानम् / संस्तारकमुनिभावे, भजना त्ववकल्पविषये स्यात् // 27 // बाला न व्रतयोग्या, बाल्यात्सम्भावनीयदोषाच्च / योग्यास्तु भुक्तभोगा, एतत्रैविध्यवृद्धमतम् - // 28 // तदपेशलं यतः खलु, बाल्यं नो चरणभावपरिपन्थि / कर्मक्षयोपशमजः, स हिनस्वदेशान्तराधीनः // 29 // नियमस्त्वतिबालानां, परिभवनीयत्वभावमान्द्याभ्याम् / बाला इव चेष्टन्ते, केचन गतयौवना अपि तु // 30 // अविवेकद्वारा खलु, यौवनमपकारि तत्त्वतस्तत् सः / ... तदभावस्तद्विगमः, स तु न जिनैर्वारितः क्वाऽपि // 31 // तुल्यं च भुक्तभोगे-ष्वपि भुवि सम्भावनीयदोषत्वम् / प्रत्युत तेष्वधिकबलः, कामानां तद्भवाभ्यासः प्राप्ताणिमादिसञ्ज्ञात्, पुंसामनिवृत्तिबादरादारात् / वेदान्तमविद्याख्यं, न कर्मदोषो ह्यसम्भाव्यः // 33 // नैतत्प्राप्तिः प्रायो, दीक्षाविकलेतिमन्ददोषेषुः। अन्योन्याश्रयसङ्कट-मुक्तं नियम विना न गुणाः // 34 // अपि चान्तरालविघ्ना-शङ्कि प्रागेव तन्निवृत्त्यर्थम् / श्रुतमभ्यस्यन्नधिकं, कृतकृत्यो भवति बालयतिः // 35 // न पुमर्थक्रमसेवा, त्वेतद्विषयव्यतिक्रमनिमित्तम् / यद्धर्म एव सुखदः, प्रतिपक्षावर्थकामौ तु // 36 // ब्रुवतेऽन्ये प्राधान्यं, मन्दप्रज्ञा गृहाश्रमस्यैव / उपजीवन्ति यदेनं, सर्वेऽप्यन्नादिनाऽऽश्रमिणः // 37 // तदसदुपजीवनातः, प्राधान्यं येन लाङ्गलादे: स्यात् / ज्ञानादिकृतं त्वेतद्, व्रतिनि दृढं नो गृहाश्रमिणि . // 38 // 98