________________ // 15 // // 16 // // 17 // // 18 / / // 19 // // 20 // अस्मादेव हि चरणं, सिध्यति मार्गानुसारिभावेन / गुरुकुलवासत्यागें, नेयं भणिताऽकृतज्ञस्य सामान्यधर्मतः खलु, कृतज्ञभावाद्विशिष्यते चरणम् / सामान्यविरहिणि पुन-र्न विशेषस्य स्थितिदृष्टा तस्माद् गुरुकुलवासः, श्रयणीयश्चरणधनविवृद्धिकृते / गुरुरपि गुणवानेव, श्लाघ्यत्वमुपैति विमलधियाम् प्रव्रज्याहगुणविधि-प्रव्रजितो गुरुकुलाश्रितो नित्यम् / अक्षतशील: शान्त-स्तत्त्वज्ञोऽवगतसूत्रार्थः प्रवचनवात्सल्ययुतः, सत्त्वहितरतोऽनुवर्तको धीरः / गुर्वनुमतपदनिष्ठो, धर्मकथाकृज्जनादेयः / अविषादी परलोके, स्थिरहस्तोपकरणोपशमलब्धिः / कलिदोषान्मूलगुणै-रेकादिगुणोज्झितोऽपि गुरुः प्रव्राज्य यो विनेयान्, शिक्षां ग्राहयति सम्यगनुवृत्तेः / स गुरुर्गुणमणिजलधिः, परः प्रतीपः प्रवचनस्य उत्पन्नमार्यदेशे, जातिकुलविशुद्धमल्पकर्माणम् / कृशतरकषायहासं, कृतज्ञमविरुद्धकार्यकरम् मरणनिमित्तं जन्म, श्रीश्चपला दुर्लभं च मनुजत्वम् / न परनिमित्तं निजसुख-मिति चिन्तोत्पन्नवैराग्यम् कालपरिहाणिदोषा-निर्दिष्टैकादिगुणविहीनमपि / बहुगुणयुतमाचार्या, दीक्षायोग्यं जनं ब्रुवते. नानीदृशस्य हृदये, रमते जिनगीर्भवाभिनन्दितया / कुङ्कुमरागो वाससि, मलिने न कदापि परिणमते गुणवानेव हि शिष्यो, लोकद्वयहितकरो गुरोर्भवति / इतरस्त्वार्तध्यानं, श्रद्धाभावात् प्रवर्द्धयति // 21 // // 22 // // 23 // // 24 // // 25 // // 26 //