________________ नियोजयत्येव मतिं न युक्तौ युक्तिं मतौ यः प्रसभं नियुङ्क्ते / असद्ग्रहादेव न कस्य हास्योऽजले घटारोपणमादधानः // 12 // असद्ग्रहो यस्य गतो न नाशं न दीयमानं श्रुतमस्य शस्यम् / न नाम वैकल्यकलङ्कितस्य प्रौढा प्रदातुं घटते नृपश्रीः॥ 13 // आमे घटे वारि धृतं यथा सद्विनाशयेत्स्वं च घटं च सद्यः / असद्ग्रहग्रस्तमतेस्तथैव श्रुतात्प्रदत्तादुभयोर्विनाशः // 14 // असद्ग्रहग्रस्तमतेः प्रदत्ते हितोपदेशं खलु यो विमूढः / / शुनीशरीरे स महोपकारी कस्तूरिकालेपनमादधाति // 15 // कष्टेन लब्धं विशदागमार्थं ददाति योऽसद्ग्रहदूषिताय / स खिद्यते यत्नशतोपनीतं बीजं वपन्नूषरभूमिदेशे // 16 // शृणोति शास्त्राणि गुरोस्तदाज्ञां करोति नासद्ग्रहवान् कदाचित् / विवेचकत्वं मनुते त्वसारग्राही भुवि स्वस्य च चालनीवत् // 17 // दम्भाय चातुर्यमघाय शास्त्रं प्रतारणाय प्रतिभापटुत्वम् / गर्वाय धीरत्वमहो गुणानामसद्ग्रहस्थे विपरीतसृष्टिः .. // 18 // असद्ग्रहस्थेन समं समन्तात्सौहार्दभृदुःखमवैति तादृग् / उपैति यादृक्कदली कुवृक्षस्फुटत्रुटत्कण्टककोटिकीर्णा // 19 // विद्या विवेको विनयो विशुद्धिः सिद्धान्तवाल्लभ्यमुदारता च / असद्ग्रहाद्यान्ति विनाशमेते गुणास्तृणानीव कणाद्दवाग्नेः // 20 // स्वार्थः प्रियो नो गुणवांस्तु कश्चिन्मूढेषु मैत्री न तु तत्त्ववित्सु / असद्ग्रहापादितविश्रमाणां स्थितिः किलासावधमाधमानाम् // 21 // इदं विदंस्तत्त्वमुदारबुद्धिरसद्ग्रहं यस्तृणवज्जहाति / जहाति नैनं कुलजेव योषिद् गुणानुरक्ता दयितं यशःश्रीः // 22 // GO