________________ असद्ग्रहत्यागाधिकारः // 14 // मिथ्यात्वदावानलनीरवाहमसद्ग्रहत्यागमुदाहरन्ति / अतो रतिस्तत्र बुधैर्विधेया विशुद्धभावैः श्रुतसारवद्भिः // 1 // असद्ग्रहाग्निज्वलितं यदन्तः क्व तत्र तत्त्वव्यवसायवल्लिः / प्रशान्तिपुष्पाणि हितोपदेशफलानि चान्यत्र गवेषयन्तु // 2 // अधीत्य किंचिच्च निशम्य किंचिदसद्ग्रहात्पण्डितमानिनो ये / मुखं सुखं चुम्बितमस्तु वाचो लीलारहस्यं तु न तैर्जगाहे // 3 // असद्ग्रहोत्सर्पदतुच्छदोधांशतोन्धीकृतमुग्धलोकैः / विडम्बिता हन्त ज.वितण्डापाण्डित्यकण्डूलतया त्रिलोकी // 4 // विधोविवेकस्य न यत्र दृष्टिस्तमोघनं तत्त्वरविविलीनः / अशुक्लपक्षस्थितिरेष नूनमसद्ग्रहः कोऽपि कुहूविलासः // 5 // कुतर्कदात्रेण लुनाति तत्त्ववल्ली रसात्सिञ्चति दोषवृक्षम् / क्षिपत्यधः स्वादुफलं शमाख्यमसद्ग्रहच्छन्नमतिर्मनुष्यः // 6 // असद्ग्रहग्रावमये हि चित्ते न क्वापि सद्भावरसप्रवेशः / इहाङ्कुरश्चित्त विशुद्धबोधः सिद्धान्तवाचां बत कोऽपराधः॥ 7 // व्रतानि चीर्णानि तपोऽपि तप्तं कृता प्रयत्नेन च पिण्डशुद्धिः / अभूत्फलं यत्तु न निह्नवानामसद्ग्रहस्यैव हि सोऽपराधः॥ 8 // स्थालं स्वबुद्धिः सुगुरोश्च दातुरुपस्थिता काचन मोदकाली / असद्ग्रहः कोऽपि गलेग्रहीता तथापि भोक्तुं न ददाति दुष्टः // 9 // गुरुप्रसादीक्रियमाणमर्थं गृह्णातिं नासद्ग्रहवांस्ततः किम् / द्राक्षा हि साक्षादुपनीयमानाः क्रमेलकः कण्टकभुङ् न भुङ्क्ते // 10 // . असद्ग्रहात्पामरसंगतिं ये कुर्वन्ति तेषां न रतिर्बुधेषु / विष्टासु पुष्टाः किल वायसा नो मिष्टान्ननिष्ठाः प्रसभं भवन्ति॥ 11 //