________________ // 83 // // 84 // हेतुभूतिनिषेधो न स्वानुपाख्याविधिर्न च / स्वभाववर्णना नैवमवधेनियतत्वतः / // 80 // न च सार्वदिको मोक्षः संसारस्यापि दर्शनात् / न चेदानी न तद्व्यक्तिव्यञ्जको हेतुरेव यत् // 81 // मोक्षोपायोऽस्तु किंत्वस्य निश्चयो नेति चेन्मतम् / तन्न रत्नत्रयस्यैव तथा भावविनिश्चयात् .. // 82 // भवकारणरागादिप्रतिपक्षमदः खलु / तद्विपक्षस्य मोक्षस्य कारणं घटतेतराम् / अथ रत्नत्रयप्राप्तेः प्राक्कर्मलघुता यथा / / परतोऽपि तथैव स्यादिति किं तदपेक्षया नैवं यत्पूर्वसेवेव मृद्वी नो साधनक्रिया / . सम्यक्त्वादिक्रिया तस्माद् दृढैव शिवसाधनम् // 85 // गुणाः प्रादुर्भवन्त्युच्चैरथवा कर्मलाघवात् / तथाभव्यतया तेषां कुतोऽपेक्षानिवारणम् तथाभव्यतयाक्षेपाद् गुणा न च न हेतवः / / अन्योन्यसहकारित्वाद् दण्डचक्रभ्रमादिवत् ज्ञानदर्शनचारित्राण्युपायास्तद्भवक्षये / एतन्निषेधकं वाक्यं त्याज्यं मिथ्यात्ववृद्धिकृत् // 88 // मिथ्यात्वस्य पदान्येतान्युत्सृज्योत्तमधीधनः / भावयेत्प्रातिलोम्येन सम्यक्त्वस्य पदानि षट् // 89 // // 87 // 44