________________ // 68 // // 69 // // 70 // // 71 // // 72 // // 73 // भव्येषु च व्यवस्थेयं संबन्धो जीवकर्मणोः / अनाद्यनन्तोऽभव्यांनां स्यादात्माकाशयोगवत् द्रव्यभावे समानेऽपि जीवाजीवत्वभेदवत् / जीवभावे समानेऽपि भव्याभव्यत्वयोभिदा स्वाभाविकं च भव्यत्वं कलशप्रागभाववत् / नाशकारणसाम्राज्याद्विनश्यन्न विरुद्ध्यते भव्योच्छेदो न चैवं स्याद्गुर्वानन्त्यान्नभोंशवत् / प्रतिमादलवत् क्वापि फलाभावेपि योग्यता नैतद्वयं वदामो यद्भव्यः सर्वोऽपि सिध्यति / यस्तु सिध्यति सोऽवश्यं भव्य एवेति नो मतम् ननु मोक्षेऽपि जन्यत्वाद्विनाशिनी भवस्थितिः / नैवं प्रध्वंसवत्तस्यानिधनत्वव्यवस्थितेः / आकाशस्येव वैविक्त्यान्मुद्गरादेर्घटक्षये / . ज्ञानादेः कर्मणो नाशे नात्मनो जायतेऽधिकम् न च कर्माणुसंबन्धान्मुक्तस्यापि न मुक्तता / योगानां बन्धहेतूनामपुनर्भवसंभवात् सुखस्य तारतम्येन प्रकर्षस्यापि संभवात् / अनन्तसुखसंवित्तिर्मोक्ष: सिध्यति निर्भयः वचनं नास्तिकाभानां मोक्षसत्तानिषेधकम् / भ्रान्तानां तेन नादेयं परमार्थगवेषिणा न मोक्षोपाय इत्याहुरपरे नास्तिकोपमाः / कार्यमस्ति न हेतुश्चेत्येषा तेषां कदर्थना अकस्मादेव भवतीत्यलीकं नियतावधेः / कादाचित्कस्य दृष्टत्वाद् बभाषे ताकिकोऽप्यदः // 74 // // 75 // // 76 // // 77 // // 78 // // 79 //