________________ // 1 // // 2 // // 3 // // 4 // . योगाधिकारः // 15 // असद्ग्रहव्ययाद् वान्तमिथ्यात्वविषविपुषः / सम्यक्त्वशालिनोऽध्यात्मशुद्धेर्योगः प्रसिध्यति कर्मज्ञानविभेदेन स द्विधा तत्र चादिमः / आवश्यकादिविहितक्रियारूपः प्रकीर्तितः शारीरस्पन्दकर्मात्मा यदयं पुण्यलक्षणः / कर्मातनोति सद्रागात्कर्मयोगस्ततः स्मृतः आवश्यकादिरागेण वात्सल्याद्भगवगिराम् / प्राप्नोति स्वर्गसौख्यानि न याति परमं पदम् ज्ञानयोगस्तपः शुद्धमात्मरत्येकलक्षणम् / इन्द्रियार्थोन्मनीभावात् स मोक्षसुखसाधकः / न परप्रतिबन्धोऽस्मिन्नल्पोऽप्येकात्मवेदनात् / शुभं कर्मापि नैवात्र व्याक्षेपायोपजायते न ह्यप्रमत्तसाधूनां क्रियाप्यावश्यकादिका / नियता ध्यानशुद्धत्वाद्यदन्यैरप्यदः स्मृतम् यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः / आत्मन्येव च संतुष्टस्तस्य कार्यं न विद्यते नैवं तस्य कृतेनार्थो नाकृतेनेह कश्चन / ' नं चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः अवकाशो निषिद्धोऽस्मिन्नरत्यानन्दयोरपि / ध्यानावष्टम्भतः क्वास्तु तत्क्रियाणां विकल्पनम् देहनिर्वाहमात्रार्था यापि भिक्षाटनादिका / क्रिया सा ज्ञानिनोऽसङ्गान्नैव ध्यानविघातिनी Gm // // // 8 // // 9 // // 10 // // 11 // ... . . 81