________________ // 12 // // 13 // // 14 // // 15 // // 17 // रत्नशिक्षादृगन्या हि तन्नियोजनदृग् यथा / फलभेदात्तथाचारक्रियाप्यस्य विभिद्यते ध्यानार्था हि क्रिया सेयं प्रत्याहृत्य निजं मनः / प्रारब्धजन्मसंकल्पादात्मज्ञानाय कल्पते स्थिरीभूतमपि स्वान्तं रजसा चलतां व्रजेत् / / प्रत्याहृत्य निगृह्णाति ज्ञानी यदिदमुच्यते शनैः शनैरुपरमेद् बुद्ध्या धृतिगृहीतया / आत्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत् यतो यतो निःसरति मनश्चञ्चलमस्थिरम् / ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् अत एवादृढस्वान्तः कुर्याच्छास्त्रोदितां क्रियाम् / सकलां विषयप्रत्याहरणाय महामतिः श्रुत्वा पैशाचिकी वार्ता कुलवध्वाश्च रक्षणम् / नित्यं संयमयोगेषु व्यापृतात्मा भवेद्यतिः .. या निश्चयैकलीनानां क्रिया नातिप्रयोजनाः / व्यवहारदशास्थानां ता एवातिगुणावहाः कर्मणोऽपि हि शुद्धस्य श्रद्धामेधादियोगतः / अक्षतं मुक्तिहेतुत्वं ज्ञानयोगानतिक्रमात् अभ्यासे सत्क्रियापेक्षा योगिनां चित्तशुद्धये / ज्ञानपाके शमस्यैव यत्परैरप्यदः स्मृतं आरुरुक्षोर्मुनेर्योगं कर्मकारणमुच्यते / योगारूढस्य तस्यैव शमः कारणमुच्यते यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्यते / सर्वसंकल्पसंन्यासी योगारूढस्तदोच्यते 2 // 18 // . // 19 // // 20 // // 21 // // 22 // // 23 //