________________ // 44 // = // 45 // = // 46 // = = // 47 // // 48 // = = // 49 // तस्मादिदमपि त्याज्यमनित्यत्वस्य दर्शनम् / नित्यसत्यचिदानन्दपदसंसर्गमिच्छता न कर्ता नापि भोक्तात्मा कापिलानां तु दर्शने / जन्यधर्माश्रयो नायं प्रकृतिः परिणामिनी प्रथमः परिणामोऽस्या बुद्धिर्धर्माष्टकाऽन्विता / ततोऽहंकारतन्मात्रेन्द्रियभूतोदयः क्रमात् चिद्रूपपुरुषो बुद्धः सिद्ध्येच्चैतन्यमानतः / सिद्धिस्तस्याश्चाविषयाऽवच्छेदनियमाञ्चितः हेतुत्वे पुंस्प्रकृत्यर्थेन्द्रियाणामत्र निर्वृत्तिः / दृष्टादृष्टविभागश्च व्यासङ्गश्च न युज्यते स्वप्ने व्याघ्रादिसंकल्पान्नरत्वानभिमानतः / / अहंकारश्च नियतव्यापारः परिकल्प्यते तन्मात्रादिक्रमस्तस्मात्प्रपञ्चोत्पत्तिहेतवे / . इत्थं बुद्धिर्जगत्क/ पुरुषो न विकारभाक् पुरुषार्थोपरागौ द्वौ व्यापारावेश एव च / अत्रांशा वेम्यहं वस्तु करोमीति च धीस्ततः चेतनोऽहं करोमीति बुद्धेर्भेदाऽग्रहात्स्मयः / एतन्नाशेऽनवच्छिन्नं चैतन्यं मोक्ष इष्यते कर्तृबुद्धिगते दुःखसुखे पुंस्युपचारतः / नरनाथे यथा भृत्यगतौ जयपराजयौ कर्ता भोक्ता च नो तस्मादात्मा नित्यो निरञ्जनः / अध्यासादन्यथाबुद्धिस्तथा चोक्तं महात्मना प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वथा / / अहंकारविमूढात्मा कर्ताहमिति मन्यते 85 // 50 // || 51 // // 52 // // 53 // // 54 // // 55 //