________________ // 8 // // 9 // // 10 // // 11 // // 12 // // 13 // प्राधान्यं व्यवहारे चेत्तत्तेषां निश्चये कथम् / / परार्थस्वार्थते तुल्ये शब्दज्ञानात्मनोईयोः प्राधान्यांद् व्यवहारस्य ततस्तच्छेदकारिणाम् / मिथ्यात्वरूपतैतेषां पदानां परिकीर्तिता नास्त्येवात्मेति चार्वाकः प्रत्यक्षानुपलम्भतः / अहन्ताव्यपदेशस्य शरीरेणोपपत्तितः मद्याङ्गेभ्यो मदव्यक्तिः प्रत्येकमसती यथा / मिलितेभ्यो हि भूतेभ्यो ज्ञानव्यक्तिस्तथा मता राजरङ्कादिवैचित्र्यमपि नात्मबलाहितम् / स्वाभाविकस्य भेदस्य ग्रावादिष्वपि दर्शनात् वाक्यैर्न गम्यते चात्मा परस्परविरोधिभिः / दृष्टवान्न च कोऽप्येनं प्रमाणं यद्वचो भवेत् आत्मानं परलोकं च क्रियां च विविधां वदन् / भोगेभ्यो भ्रंशयत्युच्चैर्लोकचित्तं प्रतारकः त्याज्यास्तन्नैहिकाः कामा: कार्या नानागतस्पृहा / भस्मीभूतेषु भूतेषु वृथा प्रत्यागतिस्पृहा / तदेतद्दर्शनं मिथ्या जीवः प्रत्यक्ष एव यत् / गुणानां संशयादीनां प्रत्यक्षाणामभेदतः न चाहंप्रत्ययादीनां शरीरस्यैव धर्माता / नेत्रादिग्राह्यतापत्तेनियतं गौरवादिवत् शरीरस्यैव चात्मत्वे नानुभूतस्मृतिर्भवेत् / बालत्वादिदशाभेदात्तस्यैकस्यानवस्थितेः नात्माङ्गं विगमेप्यस्य तल्लब्धानुस्मृतिर्यतः / व्यये गृहगवाक्षस्य तल्लब्धार्थाधिगन्तृवत् // 14 // // 15 // // 16 // // 17 // // 18 // // 19 // 82