________________ // 55 // // 56 // हिंसाप्युत्तरकालीनविशिष्टगुणसंक्रमात् / त्यक्ताविध्यनुबन्धत्वादहिसैवातिभक्तितः / ईदृग्भङ्गशतोपेतमऽहिंसा यत्रोपवर्ण्यते / सर्वांशपरिशुद्धं तत्प्रमाणं जिनशासनम् अर्थोऽयमपरोऽनर्थ इति निर्धारणं हृदि / आस्तिक्यं परमं चिर्ने सम्यक्त्वस्य जगुर्जिनाः शमसंवेगनिर्वेदानुकम्पाभिः परिष्कृतम् / दधतामेतदच्छिन्नं सम्यक्त्वं स्थिरतां व्रजेत् // 57 // // 58 // मिथ्यात्वत्यागाधिकारः // 13 // मिथ्यात्वत्यागतः शुद्धं सम्यक्त्वं जायतेऽङ्गिनाम् / अतस्तत्परिहाराय यतितव्यं महात्मना // 1 // नास्ति नित्यो न कर्ता च न भोक्तात्मा न निर्वृतिः / तदुपायश्च नेत्याहुर्मिथ्यात्वस्य पदानि षट // 2 // एतैर्यस्माद्भवेच्छुद्धव्यवहारविलङ्घनम् / . अयमेव च मिथ्यात्वध्वंसी सदुपदेशतः // 3 // नास्तित्वादिग्रहे नैवोपदेशो नोपदेशकः / ततः कस्योपकारः स्यात्संदेहादिव्युदासतः // 4 // येषां निश्चय एवेष्टो व्यवहारस्तु संगतः / / विप्राणां म्लेच्छभाषेव स्वार्थमात्रोपदेशनात् यथा केवलमात्मानं जानानः श्रुतकेवली / श्रुतेन निश्चयात् सर्वं श्रुतं च व्यवहारतः निश्चयार्थोऽत्र नो साक्षाद्वक्तुं केनापि पार्यते / व्यवहारो गुणद्वारा तदर्थावगमक्षमः // 7 //