________________ / / 31 // // 32 // // 34 // // 35 // // 36 // कथंचिन्मूर्ततापत्तिं विना वपुरसंक्रमात् / व्यापारायोगतश्चैव यत्किंचित्तदिदं जगुः . निष्क्रियोऽसौ ततो. हन्ति हन्यते वा न जातुचित् / कंचित्केनचिदित्येवं न हिंसाऽस्योपपद्यते अनित्यैकान्तपक्षेऽपि हिंसादीनामसंभवः / नाशहेतोरयोगेन क्षणिकत्वस्य साधनात् न च सन्तानभेदस्य जनको हिंसको भवेत् / सांवृतत्वादजन्यत्वात् भावत्वनियतं हि तत् नरादिक्षणहेतुश्च सूकरादेर्न हिंसकः / सूकरान्त्यक्षणेनैव व्यभिचारप्रसङ्गतः अनन्तरक्षणोत्पादे बुद्धलुब्धकयोस्तुला / नैवं तद्विरतिः क्वापि ततः शास्त्राद्यसंगतिः / घटन्ते न विनाऽहिंसां सत्यादीन्यपि तत्त्वतः / एतस्या वृत्तिभूतानि तानि.यद्भगवान् जगौ मौनीन्द्रे च प्रवचने युज्यते सर्वमेव हि / . नित्यानित्ये स्फुटं देहाद्भिन्नाभिन्ने तथात्मनि आत्मा द्रव्यार्थतो नित्यः पर्यायार्थाद्विनश्वरः / हिनस्ति हन्यते तत्तत्फलान्यप्यधिगच्छति इह चानुभवः साक्षी व्यावृत्त्यन्वयगोचरः / / एकान्तपक्षपातिन्यो युक्तयस्तु मिथो हताः पीडाकर्तृत्वतो देहव्यापत्त्या दुष्टभावतः / त्रिधा हिंसागमप्रोक्ता नहीथमपहेतुका हन्तुर्जाग्रति को दोषो हिंसनीयस्य कर्मणि / प्रसक्तिस्तदभावे चान्यत्रापीति मुधा वचः // 37 // // 38 // // 39 // // 40 // // 41 // // 42 //