________________ // 19 // = // 21 // . // 22 // // 23 // // 24 // = संभिन्नालापव्यापादममिथ्यादृग्विपर्ययम् / . पापकर्मेति दशधा कायवाङ्मानसैस्त्यजेत् ब्रह्मादिपदवाच्यानि तान्याहुर्वैदिकादयः / अतः सर्वैकवाक्यत्वाद्धर्मशास्त्रमदोऽर्थकम् क्व चैतत्संभवो युक्त इति चिन्त्यं महात्मना / . शास्त्र परीक्षमाणेनाव्याकुलेनान्तरात्मना .. प्रमाणलक्षणादेस्तु नोपयोगोऽत्र कश्चन / तन्निश्चयेऽनवस्थानादन्यथार्थस्थितेर्यतः / प्रसिद्धानि प्रमाणानि व्यवहारश्च तत्कृतः / / प्रमाणलक्षणस्योक्तौ ज्ञायते न प्रयोजनम् तत्रात्मा नित्य एवेति येषामेकान्तदर्शनम् / हिंसादयः कथं तेषां कथमप्यात्मनोऽव्ययात् मनोयोगविशेषस्य ध्वंसो मरणमात्मनः / हिंसा तच्चेन्न तत्त्वस्य सिद्धेरर्थसमाजतः नैति बुद्धिगता दुःखोत्पादरूपेयमौचितीम् / / पुंसि भेदाग्रहात्तस्याः परमार्थाऽव्यवस्थिते: न च हिंसापदं नाशपर्यायं कथमप्यहो / जीवस्यैकान्तनित्यत्वेऽनुभवाबाधकं भवेत् शरीरेणापि संबन्धो नित्यत्वेऽस्य न संभवी / विभुत्वे न च संसारः कल्पितः स्यादसंशयम् आत्मकियां विना च स्यान्मिताणुग्रहणं कथम् / कथं संयोगभेदादिकल्पना चापि युज्यते अदृष्टाद्देहसंयोगः स्यादन्यतरकर्मजः / इत्थं जन्मोपपत्तिश्चेन्न तद्योगाविवेचनात् / = // 26 // // 27 // // 28 // // 29 // // 30 //