________________ // 7 // // 8 // // 10 // // 11 // // 12 // शुद्धो धर्मोऽयमित्येतद्धर्मरुच्यात्मकं स्थितम् / शुद्धानामिदमन्यासां रुचीनामुपलक्षणम् अथवेदं यथा तत्वमाज्ञयैव तथाऽखिलम् / नवानामपि तत्त्वानामिति श्रद्धोदितार्थतः इहैव प्रोच्यते शुद्धाऽहिंसा वा तत्त्वमित्यतः / सम्यक्त्वं दर्शितं सूत्रप्रामाण्योपगमात्मकम् शुद्धाऽहिंसोक्तित: सूत्रप्रामाण्यं तत एव च / * अहिंसाशुद्धधीरेवमन्योन्याश्रयभीर्ननु नैवं यस्मादहिंसायां सर्वेषामेकवाक्यता / तच्छुद्धतावबोधश्च संभवादिविचारणात् यथाऽहिंसादयः पञ्च व्रतधर्मयमादिभिः / पदैः कुशलधर्माद्यैः कथ्यन्ते स्वस्वदर्शने प्राहुर्भागवतास्तत्र व्रतोपव्रतपञ्चकम् / यमांश्च नियमान् पाशुपता धर्मान् दशाभ्यधुः अहिंसा सत्यवचनमस्तैन्यं चाप्यकल्पना / ब्रह्मचर्यं तथाक्रोधो ह्यार्जवं शौचमेव च संतोषो गुरुशुश्रूषा इत्येते दश कीर्तिताः / निगद्यन्ते यमाः- सांख्यैरपि व्यासानुसारिभिः अहिंसा सत्यमस्तैन्यं ब्रह्मचर्यं तुरीयकम् / पञ्चमो व्यवहारश्चेत्येते पञ्च यमाः स्मृताः अक्रोधो गुरुशुश्रूषा शौचमाहारलाघवम् / अप्रमादश्च पञ्चैते नियमाः परिकीर्तिताः बौद्धैः कुशलधर्माश्च दशेष्यन्ते यदुच्यते / हिंसास्तेयान्यथाकामं पैशुन्यं परुषानृतम् // 13 // // 14 // // 15 // // 17 // // 18 //