________________ तदनु काचन निश्चयकल्पना विगलितव्यवहारपदावधिः / . न किमपीति विवेचनसंमुखी. भवति सर्वनिवृत्तिसमाधये // 18 // इह हि सर्वबहिर्विषयच्युतं हृदयमात्मनि केवलमागतम् / . . चरणदर्शनबोधपरम्परापरिचितं प्रसरत्यविकल्पकम् . // 19 // तदिदमन्यदुपैत्यधुनापि नो नियतवस्तुविलास्यपि निश्चयात् / / क्षणमसङ्गमुदीतनिसर्गधीहतबहिर्ग्रहमन्तरुदात्तता // 20 // कृतकषायजयः सगभीरिमप्रकृतिशान्तमुदात्तमुदारधीः / समनुगृह्य मनोऽनुभवत्यहो गलितमोहतमः परमं महः // 21 // गलितदुष्टविकल्पपरम्परं धृतविशुद्धि मनो भवतीदृशम् / धृतिमुपेत्य ततश्च महामतिः समधिगच्छति शुभ्रयशःश्रियम् // 22 // = 4 // 2 // = // 3 // = सम्यक्त्वाधिकारः // 12 // मनःशुद्धिश्च सम्यक्त्वे सत्येव. परमार्थतः / / तद्विना मोहगर्भा सा प्रत्यपायानुबन्धिनी सम्यक्त्वसहिता एव शुद्धा दानादिकाः क्रियाः / तासां मोक्षफले प्रोक्ता यदस्य सहकारिता कुर्वाणोऽपि क्रियां ज्ञातिधनभोगांस्त्यजन्नपि / दुःखस्योरो ददानोऽपि नान्धो जयति वैरिणम् कुर्वन्निवृत्तिमप्येवं कामभोगांस्त्यजन्नपि / दुःखस्योरो ददानोऽपि मिथ्यादृष्टिर्न सिध्यति कनीनिकेव नेत्रस्य कुसुमस्येव सौरभम् / सम्यक्त्वमुच्यते सारः सर्वेषां धर्मकर्मणाम् . तत्त्वश्रद्धानमेतच्च गदितं जिनशासने / सर्वे जीवा न हन्तव्याः सूत्रे तत्त्वमितीष्यते 76 = = // 4 // - = = // 5 // = = 4