________________ // 28 // दिङ्मात्रदर्शने शास्त्रव्यापारः स्यान्न दूरगः / अस्याः स्वानुभवः पारं सामर्थ्याख्योऽवगाहते परस्मात् परमेषा यन्निगूढं तत्त्वमात्मनः / तदध्यात्मप्रसादेन कार्योऽस्यामेव निर्भरः // 29 // // 3 // // 4 // सदनुष्ठानाधिकारः // 10 // परिशुद्धमनुष्ठानं जायते समतान्वयात् / कतकक्षोदसंक्रान्तेः कलुषं सलिलं यथा विषं गरोऽननुष्ठानं तद्धेतुरमृतं परम् / गुरुसेवाद्यनुष्ठानमिति पञ्चविधं जगुः आहारोपधिपूजद्धिप्रभृत्याशंसया कृतम् / . शीघ्रं सच्चित्तहन्तृत्वाद्विषानुष्ठानमुच्यते स्थावरं जङ्गमं चापि तत्क्षणं भक्षितं विषम् / यथा हन्ति तथेदं सच्चितमैहिकभोगतः . दिव्यभोगाभिलाषेण कालान्तरपरिक्षयात् / स्वादृष्टफलसंपूर्तेर्गरानुष्ठानमुच्यते यथा कुद्रव्यसंयोगजनितं गरसंज्ञितम् / . विषं कालान्तरे हन्ति तथेदमपि तत्त्वतः निषेधायानयोरेव विचित्रानर्थदायिनोः / सर्वत्रैवानिदानत्वं जिनेन्द्रैः प्रतिपादितम् प्रणिधानाद्यभावेन कानध्यवसायिनः / संमूर्छिमप्रवृत्त्याभमननुष्ठानमुच्यते ओघसंज्ञात्र सामान्यज्ञानरूपा निबन्धनम् / लोकसंज्ञा च निर्दोषसूत्रमार्गानुपेक्षिणी // 6 // // 8 // 71