________________ // 16 // // 17 // ... // 18 // // 19 // // 20 // // 21 // आश्रित्य समतामेकां निर्वृता भरतादयः / . न हि कष्टमनुष्ठानमभूत्तेषां तु किञ्चन अर्गला नरकद्वारे मोक्षमार्गस्य दीपिका / समता गुणरत्नानां संग्रहे रोहणावनिः मोहाच्छादितनेत्राणामात्मरूपमपश्यताम् / दिव्याञ्जनशलाकेव समता.दोषनाशकृत् क्षणं चेतः समाकृष्य समता यदि सेव्यते / स्यात्तदा सुखमन्यस्य यद्वक्तुं नैव पार्यते कुमारी न यथा वेत्ति सुखं दयितभोगजम् / न जानाति तथा लोको योगिनां समतासुखम् नतिस्तुत्यादिकाशंसाशरस्तीव्रः स्वमर्मभित् / समतावर्मगुप्तानां नातिकृत्सोपि जायते प्रचितान्यपि कर्माणि जन्मनां कोटिकोटिभिः / तमांसीव प्रभा भानोः क्षिणोति समता क्षणात्। अन्यलिङ्गादिसिद्धानामाधारः समतैव हि / रत्नत्रयफलप्राप्तेर्यया स्याद्भावजैनता ज्ञानस्य फलमेषैव नयस्थानावतारिणः / चन्दनं वह्निनेव स्यात् कुग्रहेण तु भस्म तत् चारित्रपुरुषप्राणाः समताख्या गता यदि / जनानुधावनावेशस्तदा तन्मरणोत्सवः संत्यज्य समतामेकां स्याद्यत्कष्टमनुष्ठितम् / तदीप्सितकरं नैव बीजमुप्तमिवोषरे उपाय: समतैवैका मुक्तेरन्यः क्रियाभरः / तत्तत्पुरुषभेदेन तस्या एव प्रसिद्धये 70 - // 24 // // 25 // // 26 // // 27 //