________________ // 4 // = // 5 // // 6 // // 7 = // 8 = // 9 // एकस्य विषयो यः स्यात्स्वाभिप्रायेण पुष्टिकृत् / अन्यस्य द्वेष्यतामेति स एव मतिभेदतः विकल्पकल्पितं तस्माद्वयमेतन्न तात्त्विकम् / विकल्पोपरमे तस्य द्वित्वादिवदुपक्षयः स्वप्रयोजनसंसिद्धिः स्वायत्ता भासते यदा / बहिरर्थेषु संकल्पसमुत्थानं तदा हतम् लब्धे स्वभावे कण्ठस्थस्वर्णन्यायाद् भ्रमक्षये / रागद्वेषानुपस्थानात् समता स्यादनाहता जगज्जीवेषुः नो भाति द्वैविध्यं कर्मनिर्मितम् / यदा शुद्धनयस्थित्या तदा साम्यमनाहतम् स्वगुणेभ्योपि कौटस्थ्यादेकत्वाध्यवसायतः / आत्मारामं मनो यस्य तस्य साम्यमनुत्तरम् समतापरिपाके स्याद्विषयग्रहशून्यता / यया विशदयोगानां वासीचन्दनतुल्यता किं स्तुमः समतां साधोर्या स्वार्थं प्रगुणीकृता / वैराणि नित्यवैराणामपि हन्त्युपतस्थुषाम् किं दानेन तपोभिर्वा यमैश्च नियमैश्च किम् / एकैव समता सेव्या तरी: संसारवारिधौ दूरे स्वर्गसुखं मुक्तिपदवी सा दवीयसी / मन:संनिहितं दृष्टं स्पष्टं तु समतासुखम् दृशोः स्मरविषं शुष्येत् क्रोधतापः क्षयं व्रजेत् / औद्धत्यमलनाशः स्यात् समतामृतमज्जनात् जरामरणदावाग्निज्वलिते भवकानने / सुखाय समतैकैव पीयूषघनवृष्टिवत् 9 // 10 // = // 11 // // 12 // // 13 // = // 14 // // 15 //