________________ // 8 // // 9 // // 11 // // 12 // // 13 // इत्येवं ममताव्याधि वर्द्धमानं प्रतिक्षणम् / जनः शक्नोति नोच्छेत्तुं विना ज्ञानमहौषधम् ममत्वेनैव निःशङ्कमारम्भादौ प्रवर्त्तते / कालाकालसमुत्थायी धनलोभेन धावति स्वयं येषां च पोषाय खिद्यते ममतावशः / इहामुत्र च ते न स्युस्त्राणाय शरणाय वा ममत्वेन बहून् लोकान् पुष्णात्येकोऽजितैर्धनैः / सोढा नरकदुःखानां तीव्राणामेक एव तु ममतान्धो हि यन्नास्ति तत्पश्यति न पश्यति / जात्यन्धस्तु यदस्त्येतद्भेद इत्यनयोर्महान् प्राणानभिन्नताध्यानात् प्रेमभूम्ना ततोऽधिकाम् / प्राणापहां प्रियां मत्वा मोदते ममतावशः कुन्दान्यस्थीनि दशनान् मुखं श्लेष्मगृहं विधुम् / मांसग्रन्थी कुचौ कुम्भौ हेम्नो वेत्ति ममत्ववान् मनस्यन्यद्वचस्यन्यत् क्रियायामन्यदेव च / यस्यास्तामपि लोलाक्षीं साध्वीं वेत्ति ममत्ववान् या रोपयत्यकार्येऽपि रागिणं प्राणसंशये / दुर्वृत्तां स्त्री ममत्वान्धस्तां मुग्धामेव मन्यते चर्माच्छादितमांसास्थिविण्मूत्रपिठरीष्वपि / वनितासु प्रियत्वं यत्तन्ममत्वविजृम्भितम् लालयन् बालकं तातेत्येवं ब्रूते ममत्ववान् / वेत्ति च श्लेष्मणा पूर्णामङ्गुलीममृताञ्चिताम् पङ्कामपि निःशङ्का सुतमङ्कान्न मुञ्चति / तदमेध्येऽपि मेध्यत्वं जानात्यम्बा ममत्वतः // 14 // // 15 // // 17 // // 18 // // 19 // 67