________________ विपुलद्धिपुलाकचारणप्रबलाशीविषमुख्यलब्धयः / न मदाय विरक्तचेतसामनुषङ्गोपनताः पलालवत् // 23 // कलितातिशयोऽपि कोऽपि नो विबुधानां मदकृद्गुणव्रजः / अधिकं न विदन्त्यमी यतो निजभावे समुदञ्चति स्वतः // 24 // हृदये न शिवेऽपि लुब्धता सदनुष्ठानमसङ्गमङ्गति / पुरुषस्य दशेयमिष्यते सहजानन्दतरङ्गसंगता . // 25 // इति यस्य महामतेर्भवेदिह वैराग्यविलासभृन्मनः / उपयन्ति वरीतुमुच्चकैस्तमुदारप्रकृति यश:श्रियः ___ त m ममतात्यागाधिकारः // 8 // निर्ममस्यैव वैराग्यं स्थिरत्वमवगाहते / परित्यजेत्ततः प्राज्ञो ममतामत्यनर्थदाम् / // 1 // विषयैः किं परित्यक्तैर्जागति ममता यदि / त्यागात्कञ्चकमात्रस्य भुजङ्गो न हि निर्विषः कष्टेन हि गुणग्रामं प्रगुणीकुरुते मुनिः / ममताराक्षसी सर्वं भक्षयत्येकहेलया / // 3 // जन्तुकान्तं पशूकृत्य द्रागविद्यौषधिबलात् / उपायैर्बहुभिः पत्नी ममता क्रीडयत्यहो एक: परभवे याति जायते चैक एव हि / ममतोद्रेकतः सर्वं संबन्धं कल्पयत्यथ व्याप्नोति महती भूमिं वटबीजाद्यथा वटः / तथैकममताबीजात्प्रपञ्चस्यापि कल्पना // 6 // माता पिता मे भ्राता मे भगिनी वल्लभा च मे / पुत्राः सुता मे मित्राणि ज्ञातयः संस्तुताश्च मे // 7 // // 4 //