________________ ज्ञानगर्भमिहादेयं द्वयोस्तु स्वोपमर्दतः / . उपयोगः कदाचित् स्यान्निजाध्यात्मप्रसादतः // 44 // // 4 // वैराग्यविषयाधिकारः // 7 / / विषयेषु गुणेषु च द्विधा भुवि वैराग्यमिदं प्रवर्त्तते / अपरं प्रथमं प्रकीर्तितं परमध्यात्मबुधैर्द्वितीयकम् . // 1 // विषया करणैरुपस्थिता अपि चानुश्रविका विकारिणः / न भवन्ति विरक्तचेतसां विषधारेव सुधासु मज्जताम् // 2 // सुविशालरसालमञ्जरीविचरत्कोकिलकाकलीभरैः / .. . किमु माद्यति योगिनां मनो निभृतानाहतनादसादरम् // 3 // रमणीमृदुपाणिकङ्कणक्वणनाकर्णनपूर्णघूर्णनाः / अनुभूतिनटीस्फुटीकृतप्रियसंगीतरता न योगिनः स्खलनाय न शुद्धचेतसां ललनापञ्चमचारुघोलना / यदियं समतापदावलीमधुरालापरतेन रोचते सततं क्षयि शुक्रशोणितप्रभवं रूपमपि प्रियं न हि / अविनाशिनिसर्गनिर्मलप्रथमानस्वकरूपदर्शिनाम् // 6 // परदृश्यमपायसंकुलं विषयो यत्खलु चर्मचक्षुषः / / न हि रूपमिदं मुदे यथा निरपायानुभवैकगोचरः // 7 // गतिविभ्रमहास्यचेष्टितैर्ललनानामिह मोदतेऽबुधः / सुकृताद्रिपविष्वमीषु नो विरतानां प्रसरन्ति दृष्टयः न मुदे मृगनाभिमल्लिकालवलीचन्दनचन्द्रसौरभम् / . विदुषां निरुपाधिबाधितस्मरशीलेन सुगन्धिवर्मणाम् // 9 // उपयोगमुपैति यच्चिरं हरते यन्न विभावमारुतः / न ततः खलु शीलसौरभादपरस्मिन्निह युज्यते रतिः // 10 // 64