________________ // 32 // // 33 // // 34 // = // 35 // = // 37 // = अनेकान्तागमश्रद्धा तथाप्यस्खलिता सदा / सम्यग्दृशस्तयैव स्यात् संपूर्णार्थविवेचनम् आगमार्थोपनयनाद् ज्ञानं प्राज्ञस्य सर्वगम् / कार्यादेर्व्यवहारस्तु नियतोल्लेखशेखरः तदेकान्तेन यः कश्चिद्विरक्तस्यापि कुग्रहः / शास्त्रार्थबाधनात्सोऽयं जैनाभासस्य पापकृत् उत्सर्गे वापवादे वा व्यवहारेऽथ निश्चये / ज्ञाने कर्मणि वायं चेन्न तदा ज्ञानगर्भता स्वागमेऽन्यागमार्थानां शतस्येव पराय॑के / नावतारबुधत्वं चेन्न तदा ज्ञानगर्भता नयेषु स्वार्थसत्येषु मोघेषु परचालने / माध्यस्थ्यं यदि नायातं न तदा ज्ञानगर्भता / आज्ञयागमिकार्थानां यौक्तिकानां च युक्तितः / न स्थाने योजकत्वं चेन्न तदा ज्ञानगर्भता गीतार्थस्यैव वैराग्यं ज्ञानगर्भं ततः स्थितम् / उपचारादगीतस्याप्यभीष्टं तस्य निश्रया सूक्ष्मेक्षिका च माध्यस्थ्यं सर्वत्र हितचिन्तनम् / क्रियायामादरो भूयान् धर्मे लोकस्य योजनम् चेष्टा परस्य वृत्तान्ते मूकान्धबधिरोपमा / उत्साहः स्वगुणाभ्यासे दुःस्थस्येव धनार्जने मदनोन्मादवमनं मदसंमर्दमर्दनम् / असूयातन्तुविच्छेदः समतामृतमज्जनम् स्वभावान्नैव चलनं चिदान्दमयात्सदा / वैराग्यस्य तृतीयस्य स्मृतेयं लक्षणावली // 38 // // 39 // // 40 // = // 41 // // 42 // = // 43 // 53