________________ // 10 // // 12 // // 13 // // 14 // भवहेतुषु तद्द्वेषाद्विषयेष्वप्रवृत्तितः / . वैराग्यं स्यान्निराबाधं भवनैर्गुण्यदर्शनात् / चतुर्थेपि गुणस्थाने नन्वेवं तत् प्रसज्यते / युक्तं खलु प्रमातॄणां भवनैर्गुण्यदर्शनम् सत्यं चारित्रमोहस्य महिमा कोप्ययं खलु / यदन्यहेतुयोगेऽपि फलायोगोऽत्र दृश्यते / दशाविशेषे तत्रापि न चेदं नास्ति सर्वथा / स्वव्यापारहतासङ्गं तथा च स्तवभाषितम् यदा मरुन्नरेन्द्रश्रीस्त्वया नाथोपभुज्यते / / यत्र तत्र रतिर्नाम विरक्तत्वं तदापि ते भवेच्छा यस्य विच्छिन्ना प्रवृत्तिः कर्मभावजा / रतिस्तस्य विरक्तस्य सर्वत्र शुभवेद्यतः' अतश्चाक्षेपकज्ञानात् कान्तायां भोगसन्निधौ / न शुद्धिप्रक्षयो यस्माद्धारिभद्रमिदं वचः मायाम्भस्तत्त्वतः पश्यन्ननुद्विग्नस्ततो द्रुतम् / . तन्मध्येन प्रयात्येव यथा व्याघातवजितः भोगान् स्वरूपतः पश्यंस्तथा मायोदकोपमान् / भुञ्जानोपि ह्यसङ्गः सन् प्रयात्येव परं पदम् भोगतत्त्वस्य तु पुनर्न भवोदधिलङ्घनम् / मायोदकदृढावेशात्तेन यातीह कः पथा स तत्रैव भवोद्विग्नो यथा तिष्ठत्यसंशयम् / मोक्षमार्गेपि हि तथा भोगजम्बालमोहितः धर्मशक्तिं न हन्त्यत्र भोगयोगो बलीयसीम् / ' हन्ति दीपापहो वायुर्व्वलन्तं न दवानलम् 58 // 16 // // 18 // // 19 // // 20 //