________________ // 26 // बुधास्तु स्वाधीनेऽक्षयिणि करणौत्सुक्यरहिते निलीनास्तिष्ठन्ति प्रगलितभयाध्यात्मिकसुखे तदेतद्भाषन्ते जगदंभयदानं खलु भवस्वरूपानुध्यानं शमसुखनिदानं कृतधियः / स्थिरीभूते यस्मिन्विधुकिरणकर्पूरविमला यश: श्रीः प्रौढा स्याज्जिनसमयतत्त्वस्थितिविदाम् // 27 // ___- = . वैराग्यसंभवाधिकारः // 5 // भवस्वरूपविज्ञानाद्वेषान्नैर्गुण्यदृष्टिजात् / तदिच्छोच्छेदरूपं द्राग् वैराग्यमुपजायते // 1 // सिद्ध्या विषयसौख्यस्य वैराग्यं वर्णयन्ति ये / मतं न युज्यते तेषां यावदाप्रसिद्धितः // 2 // अप्राप्तत्वभ्रमादुच्चैरवाप्तेष्वप्यनन्तशः / कामभोगेषु मूढानां समीहा नोपशाम्यति . // 3 // विषयैः क्षीयते कामो नेन्धनैरिव पावकः / प्रत्युत प्रोल्लसच्छक्तिर्भूय एवोपवर्द्धते सोमत्वमिव सिंहानां पन्नगानामिव क्षमा / विषयेषु प्रवृत्तानां वैराग्यं खलु दुर्लभम् अकृत्वा विषयत्यागं यो वैराग्यं दिधीर्षति / अपथ्यमपरित्यज्य स रोगोच्छेदमिच्छति // 6 // न चित्ते विषयासक्ते वैराग्यं स्थातुमप्यलम् / अयोधन इवोत्तप्ते निपतन्बिन्दुरम्भसः यदीन्दुः स्यात् कुहूरात्रौ फलं यद्यवकेशिनि / तदा विषयसंसर्गिचित्ते वैराग्यसंक्रमः // 8 // // 4 = अ = w // 7 = = . ... 57