________________ // 20 // // 21 // // 22 // पलायन्ते मोदं दधति परिनृत्यन्ति विवशा भवे मोहोन्मादं कमपि तनुभाजः परिगताः अपूर्णा विद्येव प्रकटखलमैत्रीव कुनय प्रणालीवास्थाने विधववनितायौवनमिव / अनिष्णाते पत्यौ मृगदृश इव स्नेहलहरी भवक्रीडाव्रीडा दहति हृदयं तात्विकदृशाम् प्रभाते संजाते भवति वितथा स्वापकलना द्विचन्द्रज्ञानं वा तिमिरविरहे निर्मलदृशाम् / तथा मिथ्यारूपः स्फुरति विदिते तत्त्वविषये भवोऽयं साधूनामुपरतविकल्पस्थिरधियाम् प्रियावाणीवीणाशयनतनुसंबाधनसुखैर्भवोयं पीयूषैर्घटित इति पूर्वं मतिरभूत् / अकस्मादस्माकं परिकलिततत्त्वोपनिषदामिदानीमेतस्मिन्न रतिरपि तु. स्वात्मनि रतिः दधानाः काठिन्यं निरवधिकमाविद्यकभवप्रपञ्चाः पाञ्चालीकुचकलशवन्नातिरतिदाः / .. गलत्यज्ञानाभ्रे प्रसृमररुचावात्मनि विधौ चिदानन्दस्यन्दः सहज इति तेभ्योऽस्तु विरतिः भवे या राज्यश्रीर्गजतुरगगोसंग्रहकृता न सा ज्ञानध्यानप्रशमजनिता किं स्वमनसि / बहिर्याः प्रेयस्यः किमु मनसि ता नात्मरतय- स्ततः स्वाधीनं कस्त्यजति सुखमिच्छत्यथ परम् पराधीनं शर्म क्षयि विषयकाङ्क्षौघमलिनं भवे भीतिः स्थानं तदपि कुमतिस्तत्र रमते / પ૬ // 23 // // 24 // . // 25 //