________________ // 14 // // 15 // // 16 // जनाः स्वार्थस्फातावनिशमवदाताशयभृतः प्रमाता कः ख्याताविह भवसुखस्यास्तु रसिक: पणैः प्राणैर्गृह्णात्यहह महति स्वार्थ इह यान् त्यजत्युच्चैलॊकस्तृणवदघृणस्तानपरथा / विषं स्वान्ते वक्त्रेऽमृतमिति च विश्वासहतिकृद्भवादित्युद्वेगो यदि न गदितैः किं तदधिकैः दृशां प्रान्तैः कान्तैः कलयति मुदं कोपकलितैरमीभिः खिन्नः स्याद् घनधननिधीनामपि गुणी / उपायैःस्तुत्याद्यैरपनयति रोषं कथमपीत्यहो मोहस्येयं भवभवनवैषम्यघटना प्रिया प्रेक्षा पुत्रो विनय इह पुत्री गुणरतिविवेकाख्यस्तातः परिणतिरनिन्द्या च जननी / विशुद्धस्य स्वस्य स्फुरति हि कुटुम्बं स्फुटमिदं भवे तन्नो दृष्टं तदपि बन संयोगसुखधीः पुरा प्रेमारम्भे तदनु तदविच्छेदघटने तदुच्छेदे दुःखान्यथ कठिनचेता विषहते / विपाकादापाकाहितकलशवत्तापबहुलाज्जनो यस्मिन्नस्मिन्क्वचिदपि सुखं हन्त न भवे मृगाक्षीदृग्बाणैरिह हि निहतं धर्मकटकं ' विलिप्ता हृद्देशा इह च बहुलै रागरुधिरैः / भ्रमन्त्यूज़ क्रूरा व्यसनशतगृध्राश्च तदियं महामोहक्षोणीरमणरणभूमिः खलु भवः हसन्ति क्रीडन्ति क्षणमथ च खिद्यन्ति बहुधा रुदन्ति क्रन्दन्ति क्षणमपि विवादं विदधते / .. . . 55 // 17 // // 18 // // 19 //