________________ // 8 // // 9 // // 10 // मदामेध्यापूर्ण व्यसनबिलसंसर्गविषमं भवः कारागेहं तदिह न रतिः क्वापि विदुषाम् / महाक्रोधो गृध्रोऽनुपरतिशृगाली च चपला स्मरोलूको यत्र प्रकटकटुशब्दः प्रचरति / प्रदीप्तः शोकाग्निस्ततमपयशोभस्म परितः स्मशानं संसारस्तदभिरमणीयत्वमिह किम् धनाशा यच्छायाप्यतिविषममूर्छाप्रणयिनी विलासो नारीणां गुरुविकृतये यत्सुमरसः / फलास्वादो यस्य प्रखरनरकव्याधिनिवह-. स्तदास्था नो युक्ता भवविषतरावत्र सुधियाम् / क्वचित् प्राज्यं राज्यं क्वचन धनलेशोप्यसुलभः क्वचिज्जातिस्फातिः क्वचिदपि च नीचत्वकुयशः / क्वचिल्लावण्यश्रीरतिशयवती क्वापि न वपुः सुरूपं वैषम्यं रतिकरमिदं कस्य नु भवे . इहोदामः कामः खनति परिपन्थी गुणमहीमविश्रामः पार्श्वस्थितकुपरिणामस्य कलहः / बिलान्यन्तःकामन्मदफणभृतां पामरमतं . वदामः किं नाम प्रकटभवधामस्थितिसुखम् तृषार्ताः खिद्यन्ते विषयविवशा यत्र भविनः करालक्रोधार्काच्छमसरसि शोषं गतवति / स्मरस्वेदक्लेदग्लपितगुणमेदस्यनुदिनं / भवग्रीष्मे भीष्मे किमिह शरणं तापहरणम् पिता माता भ्राताप्यभिलषितसिद्धावभिमतो .. गुणग्रामज्ञाता न खलु धनदाता च धनवान् / 54 // 12 // // 13 // .