________________ // 2 // // 4 // इतः क्रोधावर्तो विकृतितटिनीसंगमकृतः समुद्रे संसारे तदिह न भयं कस्य भवति प्रियाज्वाला यत्रोद्वमति रतिसंतापतरला कटाक्षान् धूमौघान् कुवलयदलश्यामलरुचीन् / अथाङ्गान्यङ्गाराः कृतबहुविकाराश्च विषया दहन्त्यस्मिन्वह्रौ भववपुषि शर्म क्व सुलभम् गले दत्वा पाशं तनयवनितास्नेहघटितं निपीड्यन्ते यत्र प्रकृतिकृपणाः प्राणिपशवः / नितान्तं दुःख़ार्ता विषमविषयैर्घातकभटैर्भव:सूनास्थानं तदहह महासाध्वसकरम् अविद्यायां रात्रौ चरति वहते मूर्ध्नि विषमं कषायव्यालौघं क्षिपति विषयास्थीनि च गले / महादोषान् दन्तान् प्रकटयति वक्रस्मरमुखो न विश्वासार्होऽयं भवति भवनक्तंचर इति जना लब्ध्वा धर्मद्रविणलवभिक्षां कथमपि प्रयान्तो वामाक्षीस्तनविषमदुर्गस्थितिकृता / विलुट्यन्ते यस्यां कुसुमशरभिल्लेन बलिना भवाटव्यां नास्यामुचितममहायस्य गमनम् धनं मे गेहं मे मम सुतकलत्रादिकमतो. विपर्यासादासादितविततदुःखा अपि मुहुः / जना यस्मिन् मिथ्यासुखमदभृतः कूटघटना मयोऽयं संसारस्तदिह न विवेकी प्रसजति प्रियास्नेहो यस्मिन्निगडसदृशो यामिकभटोपमः स्वीयो वर्गो धनमभिनवं बन्धनमिव / // 5 // // 7 // . 43