________________ // 15 // // 16 // // 17 // // 18 // व्रतभारासहत्वं ये विदन्तोप्यात्मनः स्फुटम् / / दम्भाद्यतित्वमाख्यान्ति तेषां नामापि पाप्मने कुर्वते ये न यतनां सम्यक्कालोचितामपि / तैरहो यतिनाम्नैव दाम्भिकैर्वञ्च्यते जगत् धर्मीतिख्यातिलाभेन प्रच्छादितनिजाश्रवः / तृणाय मन्यते विश्वं हीनोपि धृतकैतवः। .. आत्मोत्कर्षात्ततो दम्भी परेषां चापवादतः / बध्नाति कठिनं कर्म बाधकं योगजन्मनः आत्मार्थिना ततस्त्याज्यो दम्भोऽनर्थनिबन्धनम् / शुद्धिः स्यादृजुभूतस्येत्यागमे प्रतिपादितम् जिनैर्नानुमतं किंचिन्निषिद्धं वा न सर्वथा / कार्ये भाव्यमदम्भेनेत्येषाज्ञा पारमेश्वरी / अध्यात्मरतचित्तानां दम्भः स्वल्पोऽपि नोचितः / छिद्रलेशोऽपि पोतस्य सिन्धुं लङ्घयतामिव .. दम्भलेशोपि मल्ल्यादेः स्त्रीत्वानर्थनिबन्धनम् / अतस्तत्परिहाराय यतितव्यं महात्मना // 19 // // 20 // // 21 // // 22 // भवस्वरूपचिन्ताधिकारः // 4 // तदेवं निर्दम्भाचरणपटुना चेतसि भवस्वरूपं संचिन्त्यं क्षणमपि समाधाय सुधिया / इयं चिन्ताऽध्यात्मप्रसरसरसीनीरलहरी सतां वैराग्यास्थाप्रियपवनपीना सुखकृते - // 1 // इत: कामौर्वाग्निर्व्वलति परितो दुःसह इतः पतन्ति ग्रावाणो विषयगिरकूटाद्विघटिताः / પર