________________ // 3 // m // 4 // - // 5 // I w // 6 // // 7 // // 8 // दम्भेन व्रतमास्थाय यो वाञ्छति परं पदम् / लोहनावं समारुह्य सोऽब्धेः पारं यियासति किं व्रतेन तपोभिर्वा दम्भश्चेन्न निराकृतः / किमादर्शेन किं दीपैर्यद्यान्ध्यं न दृशोर्गतम् केशलोचधराशय्याभिक्षाब्रह्मव्रतादिकम् / दम्भेन दुष्यते सर्वं त्रासेनेव महामणिः सुत्यजं रसलाम्पट्यं सुत्यजं देहभूषणम् / सुत्यजाः कामभोगाश्च दुस्त्यजं दम्भसेवनम् स्वदोषनिह्नवो लोकपूजा स्याद् गौरवं तथा / इयतैव कदर्थ्यन्ते दम्भेन बत बालिशाः असतीनां यथा शीलमशीलस्यैव वृद्धये / दम्भेनाव्रतवृद्ध्यर्थं व्रतं वेषभृतां तथा / जानाना अपि दम्भस्य स्फुरितं बालिशा जनाः / तत्रैव धृतविश्वासाः प्रस्खलन्ति पदे पदे . अहो मोहस्य माहात्म्यं दीक्षां भागवतीमपि / दम्भेन यद्विलुम्पन्ति कज्जलेनेव रूपकम् अब्जे हिमं तनौ रोगो वने वनिर्दिने निशा। ग्रन्थे मौर्यं कलिः सौख्ये धर्मे दम्भ उपप्लव: अत एव न यो धर्तुं मूलोत्तरगुणानलम् / युक्ता सुश्राद्धता तस्य न तु दम्भेन जीवनम् परिहर्तुं न यो लिङ्गमप्यलं दृढरागवान् / संविज्ञपाक्षिकः स स्यान्निर्दम्भः साधुसेवकः निर्दम्भस्यावसन्नस्याप्यस्य शुद्धार्थभाषिणः / निर्जरां यतनां दत्ते स्वल्पापि गुणरागिणः // 9 // // 10 // // 11 // // 12 // // 13 // // 14 // પ૧