________________ या ज्ञानाद्युपकारिता विधियुता शुद्धोपयोगोज्ज्वला, सा पूजा खलु धर्म एव गदिता लोकोत्तरत्वं श्रिता / श्राद्धस्यापि सुपात्रदानवदितस्त्वन्यादृशीं लौकिकीमाचार्या अपि दानभेदवदिमां जल्पन्ति पुण्याय नः // 94 // पुण्यं कर्म सरागमन्यदुदितं धर्माय शास्त्रेष्विति, श्रुत्वा शुद्धनयं न चात्र सुधियामेकान्तधीयुज्यते / तस्माच्छुद्धतरश्चतुर्दशगुणस्थाने हि धर्म नयः, किं ब्रूते न तदङ्गतां त्वधिकृतेऽप्यभ्रान्तमीक्षामहे // 95 // इत्येवं नयभङ्गहेतुगहने मार्गे मनीषोन्मिषेन्मुग्धानां करुणां विना न सुगुरोरुद्यच्छतां स्वेच्छया / तस्मात्सद्गुरुपादपद्ममधुपः स्वं संविदानो बलं, सेवां तीर्थकृतां करोतु सुकृती द्रव्येण भावेन वा // 96 // सेयं ते व्यवहारभक्तिरुचिता शङ्केश्वराधीश ! यद्, दुर्वादिव्रजदूषणेन पयसा शङ्कामलक्षालनम् / स्वात्मारामसमाधिबाधितभवैर्नास्माभिरुन्नीयते, दुष्यं दूषकदूषणस्थितिरपि प्राप्तैर्नयं निश्चयम् // 97 // दर्श दर्शमवापमव्ययमुदं विद्योतमाना लसद्विश्वासं प्रतिमामकेन रहित ! स्वां ते सदानन्द ! याम् / * सा धत्ते स्वरसप्रसृत्वरगुणस्थानोचितामानमद्विश्वासम्प्रति मामके नरहित ! स्वान्ते सदानं दयाम् // 98 // त्वबिम्बे विधृते हृदि स्फुरति न प्रागेव रूपान्तरं, त्वद्रूपे तु ततः स्मृते भुवि भवेन्नो रूपमात्रप्रथा / 280