________________ शुद्धाशुद्ध उदाहृतो ह्यविधिना योगोऽर्चनाद्यश्च यः, सोऽप्येको व्यवहारदर्शनमतो नैव द्वयोर्मिश्रणात् यामश्रणात् // 88 // भावद्रव्यतया द्विधा परिणतिः प्रस्पन्दरूपाः स्मृता, योगास्तत्र तृतीयराश्यकथनादायेषु नो मिश्रता / नैवान्त्येष्वपि निश्चयादिति विषोद्गारः कथं ते भ्रमो, निष्पीता किमु न क्षमाश्रमणगीः सद्भाष्यसिन्धोः सुधा // 89 // मिश्रत्वे खलु योगभावविधया कुत्रापि कृत्ये भवेन्मिश्रं कर्म न बध्यते च शबलं तत्संक्रमात्स्यात्परम् / तद्रव्यस्तवमिश्रतां प्रवदता किं तस्य वाच्यं फलं, स्वव्युद्ग्राहितमूढपर्षदि मदान्मूर्धानमाधुन्वता . // 90 // सिद्धान्ते परिभाषितो हि गृहिणां मिश्रत्वपक्षस्ततो, बन्धानौपयिको विरत्यविरतिस्थानान्वयोत्प्रेक्षया / अन्तर्भावित एव सोऽपि पुरतो धर्मे फलापेक्षया,. पूजापौषधतुल्यताऽस्य किमु न व्यक्ता विशेषेक्षिणाम् // 91 // हिंसांशो यदि दोषकृत्तव जड ! द्रव्यस्तवे केन तन् मिश्रत्वं यदि दर्शनेन किमु तद्भोगादिकालेऽपि न / भक्त्या चेन्ननु साऽपि का यदि मतो रागो भवाङ्गं तदा, हिंसायामपि शस्तता नु सदृशीत्यत्रोत्तरं मृग्यते // 92 // एतेनेदमपि व्यपास्तमपरे यत्प्राहुरज्ञाः परं, पुण्यं कर्म जिनार्चनादि न पुनश्चारित्रवद्धर्मकृत् / / तद्वत्तस्य सरागतां कलयत: पुण्यार्जनद्वारतो, धर्मत्वं व्यवहारतो हि जननान्मोक्षस्य नो हीयते // 93 // 289