________________ वाहिन्युत्तरणादिके परपदे चारित्रिणामन्यथा, स्यान्मिश्रत्वमपापभावमिलितां पापक्रियां तन्वताम् / किंचाकेवलिनं विचार्य समये द्रव्याश्रवं भाषितं, शुद्धं धर्ममपश्यतस्तनुधियः शोकः कथं गच्छति // 83 // वाहिन्युत्तरणादिकेऽपि यतनाभागे विधि नै क्रियाभागे ऽप्राप्तविधेयता हि गदिता तन्त्रेऽखिलैस्तान्त्रिकैः / हिंसा न व्यवहारतश्च गृहिवत्साधोरितीष्टं तु नो मिश्रत्वं ननु नो मते किमिह तद्दोषस्य संकीर्तनम् // 84 // हिंसा सद्व्यवहारतो विधिकृतः श्राद्धस्य साधोश्च नो, सा लोकव्यवहारतस्तु विदिता बाधाकरी नोभयोः / इच्छाकल्पनयाऽभ्युपेत्य विहिते तथ्या तदुत्पादनोत्पत्तिभ्यां तु भिदा न कोऽपि नियतव्यापारके कर्मणि // 85 // पूर्णेऽर्थेऽपि विधेयता वचनतः सिद्धा लिङात्मिका, भागे बुद्धिकृता यतः प्रतिजनं चित्रा स्मृता साऽऽकरे / नो चेज्जैनवचः क्रिया नयविधिः सर्वश्च मिश्रो भवेदित्थं भेदमयं न किं तव मतं मिश्राद्वयं लुम्पति // 86 // भावोऽधर्मगतः क्रियेतरगतेत्यत्रापि भङ्गे कथं, मिश्रत्वं तमधर्ममेव मुनयो भावानुरोधाद्विदुः / भक्त्याहत्प्रतिमार्चनं कृतवतां न स्पृश्यमानः पुनविश्चित्तमिवाग्रहाविलधियां पापेन संलक्ष्यते // 87 // धर्माधर्मगते क्रिये च युगपद्धत्तो विरोधं मिथो, नाप्येते प्रकृतस्थले क्वचिदतस्तुर्योऽपि भङ्गो वृथा / 285