________________ साम्राज्ये घटमानमेतदखिलं चारित्रभाजां भवेत्, .. पार्श्वस्थस्त्वसती सतीचरितवन्नो वक्तुमेतत्प्रभुः // 77 // सर्वासु प्रतिमासु नाग्रहकृतं वैषम्यमीक्षामहे, पूर्वाचार्यपरम्परागतगिरा शास्त्रीययुक्त्याऽपि च / इत्थं चाविधिदोषतापदलनं शक्ता विघातुं विधि स्वरोज्जागररागसागरविधुज्योत्स्नेव भक्तिप्रथा // 78 // उत्फुल्लामिव मालती मधुकरो रेवामिवेभः प्रियां, माकन्दद्रुममञ्जरीमिव पिकः सौन्दर्यभाजं मधौ। नन्दच्चन्दनचारुनन्दनवनीभूमीमिव द्योः पतिस्तीर्थेशप्रतिमां न हि क्षणमपि स्वान्ताद्विमुञ्चाम्यहम् // 79 // मोहोद्दामदवानलप्रशमने पाथोदवृष्टिःशमश्रोतोनिर्झरिणी समीहितविधौ कल्पद्रुवल्लिः सताम् / संसारप्रबलान्धकारमथने मार्तण्डचण्डद्युतिजैनी मूर्तिरुपास्यतां शिवसुखे भव्याः पिपासाऽस्ति चेत् // 80 // श्राद्धेन स्वजनुः फले जिनमतात्सारं गृहीत्वाऽखिलं, त्रैलोक्याधिपपूजने कलुषता मोक्षार्थिना मुच्यताम् / धृत्वा धर्मधियं विशुद्धमनसा द्रव्यस्तवे त्यज्यताम्, मिश्रोऽसाविति लम्बितः पथि परैः पाशोऽपि चाशोभनः // 81 // भावेन क्रियया तयोर्ननु तपोर्मिश्रत्ववादे चतुभङ्गयां नादिम एकदाऽनभिमतं येनोपयोगद्वयम् / भावो धर्मगतः क्रियेतरगतेत्यल्पो द्वितीयःपुनर्-. . भावादेव शुभात्क्रियागतरजोहेतुस्वरूपक्षयात् // 82 // 284