________________ चैत्यानां खलु निश्रितेतरतया भेदेऽपि तन्त्रे स्मृतः, प्रत्येकं लघुवृद्धवन्दनविधिः साम्ये तु यत्साम्प्रतम् / इच्छाकल्पितदूषणेन भजनासंकोचनं सर्वतः, स्वाभीष्टस्य च वन्दनं तदपि किं शास्त्रार्थबोधोचितम् // 72 // चैत्यानां न हि लिङ्गिनामिव नतिर्गच्छान्तरस्यो चितेत्येतावद्वचसैव मोहयति यो मुग्धाञ्जनानाग्रही / तेनावश्यकमेव किं न ददृशे वैषम्यनिर्णायकं, लिङ्गे च प्रतिमासु दोषगुणयोः सत्त्वादसत्त्वात्तथा // 73 // लिङ्गे स्वप्रतिबद्धधर्मकलनाद्भाज्या भवेद्वन्द्यता, सैकान्तात्प्रतिमासु. भावभगवद्भूयो गुणोद्बोधनात् / तुल्ये वस्तुनि पापकर्मरहिते भावोऽपि चारोप्यते, कूटद्रव्यतया धृतेऽत्र न पुनर्मोहस्ततः कः सताम् // 74 // नन्वेवं प्रतिमैकतां प्रवदतामिष्टा प्रतिष्ठाऽपि का, सत्यं सात्मगतैव देवविषयोद्देशेन मुख्योदिता / यस्याः सा वचनानलेन परमा स्थाप्ये समापत्तितो, दग्धे कर्ममले भवेत्कनकता, जीवायसः सिद्धता // 75 // बिम्बेऽसावुपचारतो निजहृदो भावस्य संकीयते, पूजा स्याद्विहिता विशिष्टफलदा द्राक् प्रत्यभिज्ञाय याम् / तेनास्यामधिकारिता गुणवतां शुद्धाशयस्फूर्तये, वैगुण्ये तु. ततः स्वतोऽप्युपनतादिष्टं प्रतिष्ठाफलम् // 76 // चैत्येऽनायतनत्वमुक्तमथ यत्तीर्थान्तरीयग्रहात्,. तत्किं तन्ननु दुर्मतिग्रहवशाद् दुष्टं श्रयामीति चेत् / ... 283