________________ क्लिष्टेच्छाविरहो द्वयोरपि समस्तुल्यश्च भक्तेर्गुणो, नागादिप्रतिमार्चनादिह खलु व्यक्ता विशेषप्रथा // 66 // एतेनैव समर्थिताऽभ्युदयिकी धा च कल्पोदिता, ... श्रीसिद्धार्थनृपस्य यागकरणप्रौढिर्दशाहोत्सवे / श्राद्धः खल्वयमादिमाङ्गविदितो यागं जिनार्चा विना, कुर्यान्नान्यमुदाहृता व्रत तां त्याज्या कुशास्त्रस्थितिः // 67 // इत्येवं शुचिसूत्रवृन्दविदिता नियुक्तिभाष्यादिभिः, सन्यायेन समर्थिता च भगवन्मूर्तिः प्रमाणं सताम् / . युक्तिस्त्वन्धपरम्पराश्रयहता मा जाघटीढुधियामेतद्दर्शनवञ्चिता हगपि किं शून्येव न भ्राम्यति // 68 // // 69 // प्राप्या नूनमुपक्रिया प्रतिमया नो काऽपि पूजाकृता, चैतन्येन विहीनया तत इयं व्यर्थेति मिथ्या मतिः / पूजा भावत एव देवमणिवत् सा पूजिता शर्मदेत्येतत्तन्मतगर्वपर्वतभिदा वज्रं बुधानां वचः वन्द्याऽस्तु प्रतिमा तथापि विधिना सा कारिता मृग्यते, स प्रायो विरलस्तथा च सकलं स्यादिन्द्रजालोपमम् / हन्तैवं यतिधर्मपौषधमुखश्राद्धक्रियादेविधेदौर्लभ्येन तदस्ति किं तव न यत्स्यादिन्द्रजालोपमम् योगाराधनशंसनैरथ विधेर्दोषः क्रियायां न चेत्, तत्किं न प्रतिमास्थलेऽपि सदृशं प्रत्यक्षमुवीक्षते / किंचोक्ता गुरुकारितादिविषयं त्यक्त्वाग्रहं भक्तितः, सर्वत्राप्यविशेषतः कृतिवरैः पूज्याकृतेः पूज्यता - 282 // 70 // // 71 //