________________ अत्रास्माकमिदं हृदि स्फुरति यद्रव्यस्तवे दूषणं, वैगुण्येन विधेस्तदप्युपहतं भक्त्येति हि ज्ञापनम् / कूपज्ञातफलं यतोऽविधियुताप्युक्तक्रिया मोक्षदा, भक्त्यैव व्यवधानतः श्रुतधराः शिष्टाः प्रमाणं पुनः // 61 // धर्मार्थः प्रतिमार्चनं यदि वधः स्यादर्थदण्डस्तदा, तत्किं सूत्रकृते न तत्र पठितो भूताहियक्षार्थवत् / या हिंसा खलु जैनमार्गविदिता सा स्यान्निषेध्या स्फुटं, नाधार्मिकवन्निहन्तुमिह किं दोषं प्रसङ्गोद्भवम् // 62 // आनन्दस्य हि सप्तमाङ्गवचसा हित्वा परिवाड्वरश्राद्धस्य प्रथितौपपांतिकगिरा चैत्यान्तरोपासनाम् / अर्हचैत्यनतिं विशिष्य विहितां श्रुत्वा न यो दुर्मतिं, स्वान्तान्मुञ्चति नाश्रयप्रियतया कर्माणि मुञ्चन्ति तम् // 63 // प्रश्नव्याकरणे सुवर्णगुलिकासम्बन्धनिर्धारणे, शस्ते कर्मणि दिग्द्वयग्रहरह:ख्यातौं तृतीयाङ्गतः / सम्यग्भावितचैत्यसाक्षिकमपि स्वालोचनाज्ञा श्रुतौ, सूत्राच्च व्यवहारतो भवति नः प्रीतिजिनेन्द्रे स्थिरा // 64 // तीर्थेशप्रतिमार्चनं कृतवती सूर्याभवद्भक्तितो, यत् कृष्णा परदर्पमाथि तदिदं षष्ठाङ्गविस्फूर्जितम् / सच्चके खलु या न नारदमृर्षि मत्वा व्रतासंयतं, मूढानामुपजायते कथमसौ न श्राविकेति भ्रमः // 65 // तत्पाणिग्रहणोत्सवे कृतमिति प्रौढ्या प्रमाणं न चेत्, स्वःसन्निर्मितवन्दनादिकमपि स्थित्युत्सवे किं तथा / 281